________________
प्रवचन
सारोद्धारे
सटीके
॥४५॥
यद् दुःखं लभते तदष्टगुणितं स्त्रीकुक्षिमध्यस्थिती, सम्पद्यत तदप्यनन्तगुणितं जन्मक्षणे प्राणिनाम् ॥६॥
बाल्ये मूत्र-पुरीष धृलिलुठना-जानादिमिनन्दिता, तारुण्ये विभवाजनेष्टविरहा-अनिष्टागमादिय॑था। वृद्धत्वे तनुकम्पदृष्ट्यपटुता श्वासाद्यसुस्थात्मता, तत्का नाम दशाऽस्ति सासुखमिह प्राप्नोति यस्यां जनः१७/
सम्यग्दर्शनपालनादिभिरथ प्राप्ते मवे त्रैदशे, जीवाः शोक-विषाद-मत्सर-भय-स्वल्पर्धिकत्वादिमिः। ईया-काम-मद-क्षुधाप्रभृत्तिमिश्चात्यन्तपीडार्दिताः, क्लेशेन अपयन्ति 'दीनमनसो दीर्घ निजं जीवितम् ॥६॥
इत्थं शिवफलाधायिभववैराग्यवीरुधः। 'सुधावृष्टिं सुधीः कुर्यादेना संसारमावनाम् ।। ६ ॥३। अथकत्वभावना
उत्पद्यते जन्तुरिक एव, विपद्यते चैकक एव दुःखी ।
कर्मार्जयत्येकक एव चित्रमासेवते तत्फलमेक एव ॥ १ ॥ यज्जीवेन धनं स्वयं बहुविधैः कष्टैरिहोपाज्यंते, तत्सम्भृय कलत्र-मित्र-तनय-भ्रात्रादिभिभुज्यते । तत्तकर्मवशाच्च नारक-नर-स्वर्वासि-तिर्यग्भवेष्वेकः सैष सुदुःसहानि सहते दुःखान्यसंख्यान्यहो ॥ २ ॥
जीवो यस्य कृते भ्रमत्यनुदिशं दैन्यं समालम्बते, धर्माद् भ्रश्यति वश्चयत्यतिहितान् न्यायादपक्रामति । देहः सोऽपि सहात्मना न पदमप्येकं परस्मिन भवे, गच्छत्यस्य ततः कथं वदत भोः साहाय्यमाधास्यति ॥३॥
स्वार्थेकनिष्ठं स्वजन स्वदेहमुख्यं ततः सर्वमवेत्य सम्यम् ।
सर्वत्र कल्याणनिमित्तमेकं धर्म सहायं विदधीत धीमान् ॥४॥४। १दीनमनास-सं. २ सुधाष्ट्रि-सं ।
६७.द्वारे करणसमती भावनाः गाथा: ५७२. ५७३ प्र.आ. १५०
॥४५॥