________________
प्रवचन
सारोद्वारे सटीके
॥४५७॥
उद्द'डं ननु दण्डसात्सुरगिरिं पृथ्वीं पृच्छत्रसात्, ये कतु प्रभविष्णवः कृशमपि क्लेशं विनैवात्मनः । निःसामान्यकलापन चतुरास्तीर्थङ्करास्तोऽप्यहो, नैवाशेषजनौघघस्मरमपाकतु कृतान्तं क्षमाः ||४|| कलत्र- मित्र-पुत्रादिस्नेहग्रहनिवृत्तये । इति शुद्धमतिः कुर्यादशरण्यत्वभावनाम् ॥ ५ ॥ २ । अथ संसारभावना
सुमतिरमतिः श्रीमानश्रीः सुखी सुखवर्जितः, सुतनुरतनुः स्वाम्यस्वामी प्रियः स्फुटमप्रियः । नृपतिरनृपः स्वर्गी तिर्यङ् नरोऽपि च नारकस्तदिति बहुधा नृत्यत्यस्मिन् भवी भवनाटके ||१|| बद्ध्वा पापमनेककल्प महारम्भादिभिः कारणैर्गत्वा नारकभूमिष्टतमः सङ्घट्टनष्टाध्वसु । अङ्गच्छेदन-भेदन प्रदहन -क्लेशादिदुःखं महज्जीवो यल्लभते तदत्र गदितु ं ब्रह्मापि जिमाननः ॥२॥ मायादिनिबन्धनैर्बहुविधैः प्राप्तस्तिरां गतिं सिंहव्याघ्र मतङ्गजैण-वृषभ- च्छागादिरूपस्पृशाम् । क्षुत्तृष्णा-वध-बन्ध-ताडन रुजावाहादिदुखं सदा, यज्जीवः सहते न तत्कथयितु' केनाप्यहो शक्यते ॥ ३॥ खाद्या-ऽखाद्यविवेकशून्यमनसो निर्भीकताऽऽलिङ्गिताः सेव्या-सेव्यविधौ समीकृतधियो निःशूकता वल्लभाः । तारा निरन्तरमारम्भादिभिदुस्सहं क्लेशं सङ्कलयन्ति कर्म च महादुःखप्रदं 'चिन्वते ||४|| मर्त्याः क्षत्रिय वाडवप्रभृतयो येऽप्यार्यदेशोद्भवास्तेऽप्यज्ञान- दरिद्रता-व्यसनिता-दौर्भाग्य- रोगादिभिः । अन्यप्रेषण- मानभञ्जन- जनावज्ञादिभिश्वानिशं दुखं तद्विषहन्ति यत्कथयितु ं शक्यं न कल्पैरपि ॥ ५ ॥ रम्भागर्भसमः सुखी शिखिशिखावर्णाभिरुच्चैरयःसूचीभिः प्रतिरोमभेदितव पुस्तारुण्यपुण्यः पुमान् ।
१ विश्वते - सं ॥
६७. द्वारे करणसतौ भावनाः
गाथा
५७२
५७३
प्र. आ.
१५७
॥४५७॥