SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ||४४८।। किन्तु अलेपकदेव वल्ल-चनकौदनादिकम्, तथाविधशक्त्यभावे च निरन्तरस्वाध्यायाध्ययनादिकं किमपि पुष्टं कारणमाश्रित्य लेपकृदपि कल्पते । तत्र च लेपकृति गृह्यमाणे 'दातुः सम्बन्धी हस्तः संसृष्टोऽसंसृष्टो वा भवति । येन च कृत्वा भिक्षा ददाति तदपि मात्रकं करोटिकादिकं संसृष्टमसंसृष्टं वा । द्रव्यमपि देयं सावशेषं निरवशेषं वा । एतेषां च त्रयाणां पदानां संसृष्ट हस्तं संसृष्टमात्र सावशेषद्रव्यरूपाणां सप्रतिपक्षाणां परस्परं योगतोऽष्टौ भङ्गा भवन्ति । चामी - संसृष्ट हस्तः संसृष्टं मात्रम्, सावशेषं द्रव्यम् १, संसृष्टो हस्तः संसृष्टं मात्रम्, निरवशेषं द्रव्यम् २, संसृष्ट हस्तोsसंसृष्टं मात्रम्, सावशेषं द्रव्यम् ३, संसृष्टशे हस्तोऽसंसृष्टं मात्रम्, निरवशेषं द्रव्यम् ४. असंसृष्टः सृष्टं व असंसृष्ट हस्तः संसृष्टं मात्रम्, निरवशेषं द्रव्यम् ६ असंसृष्टो हतोऽसंसृष्टं मात्रम्, सावशेषं द्रव्यम् ७, असंसृष्टो हस्तोऽसंसृष्टं मात्रम्, निरवशेषं द्रव्यम् ८ । एतेषु चाष्टसु मङ्गेषु मध्ये विषमेषु भङ्गेषु - प्रथम- तृतीय- पञ्चम सप्तमेषु ग्रहणं कर्तव्यम्, न समेषु - द्वितीयचतुर्थ षष्ठाऽष्टमरूपेषु । इयमत्र भावना - इह हस्तो मात्रं द्वे वा स्वयोगेन संसृष्टे वा भवेतामसंसृष्टे वा, न तद्वशेन पश्चात्कर्म सम्भवति, किं तर्हि १ द्रव्यवशेन, तथाहि यत्र द्रव्यं सावशेषं तत्र तेन साध्यर्थं खरण्टितेsपि न दात्री प्रक्षालयति भूयोऽपि परिवेषणसम्भवात् । यत्र तु निश्वशेयं द्रव्यं तत्र साधुदानानन्तरं नियमतस्तद्रव्याधारस्थालीं हस्तं मात्रं वा प्रक्षालयति, ततो द्वितीयादिषु भङ्गेषु द्रव्ये निरवशेषे पश्चात्कर्मसम्भवान कल्पते । प्रथमादिषु तु पश्चात्कर्मासम्भवात्कल्पत इति ९ ।। १ तुलना-पिण्डनि वृत्तिः ६२६ । पिण्डविशुद्धिवृत्तिः ९१ ॥ २ हस्ता० सु. | 'द इति पिण्डनि, वृत्तावपि पाठः ६२६ ॥ ६७ द्वा करण सप्तत १० एषण दोषाः गाथा ५६८. प्र.आ. १५४ ||४४८|
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy