________________
सर्वोक्तोपदेशेन यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानां स प्राप्नोत्यचिराच्छियम् ॥ १ ॥"
प्रव०
॥ ५॥
श्रोणां पुनरनन्तरप्रयोजनं यथावत्प्रवचनसारभूतकतिपयपदार्थपरिज्ञानं परस्परप्रयोजनं तु तेषामपि परमपदप्राप्तिरेव तथाहि ते यथावद्विज्ञातप्रवचनसारभूतकतिपयपदार्थाः प्रकृत्यसात्संसाराद्विरज्यसारोद्धारे ते ततः परमपदा वाप्तये निःसपत्नं प्रयत्नमाचरन्ति ततो निखिलश्रेयस्कारकं निःश्रेयसमासादयन्ति यत उक्तम्"सम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः । क्रियाऽऽसक्ता ह्यविघ्नेन गच्छन्ति परमं गतिम् ॥ १ ॥ इति । सम्बन्धस्तु द्विधा - उपायोपेयलक्षणो गुरुपर्वक्रमलक्षणत्र तत्र प्रथमस्तर्कानुमारिणः प्रति स चार्य - चचनरूपापन्नं शास्त्रमिदमुपायः उपेयं सम्यगेतच्छास्त्रार्थ परिज्ञानं मुक्तिपदं वा तस्याप्यतः पारम्पर्येण प्राप्तेः, श्रद्धानुसारिणस्तु प्रति गुरुपर्वक्रमलक्षणसम्बन्धः, तत्क्रमश्चायं प्रथमं हि घनाघनघनपटल इवातिप्रसारिणि पटुतरोज्जूम्ममाणखर किरण निकरप्रकाशसङ्काशक्रमनीयकेत्रलालोकन्यक्कारिणि घनघातिकर्मनिचये प्रचण्डप्रभञ्जनप्रसारिणेवाध्यामलशुभध्यानेन प्रलयमापादिते निःशेवयथावस्थित जीवाजीवादिपदार्थसार्थावभासिनि निःसपत्ने समुत्पन्ने केवलज्ञानालोके नाकिनगरगुरुतर विशुद्धसमृद्धिसम्भारतिरस्कारकारिण्यामपापायां नगर्यां सकललोकलोचनामन्दानन्दोत्सवकारिनिरूपमप्राकारत्रयोद्भासितसमव सरणमध्यभागव्यवस्थापितविचित्ररत्नखण्डखचित सिंहासनोपविष्टेन विशिष्ट महाप्रातिहार्यादिपरमार्हन्त्यसम्मृद्विमहिम्ना भगवता श्रीमन्महावारेण सुरासुरकिन्नरनरेश्वर निकर परिकरितायां परिषदि प्रवचनसारभूताः सर्वेऽपि पदार्था अर्थतो निवेदिताः तदनु प्रवचनाधिपतिना सुधर्मस्वामिना त एव सूत्रतो रचिताः 'अत्थं भासह अरहा सुतं गंधति गणहरा निउणं' इत्यार्थवचनात् तदनु जम्बूस्वामिप्रभव
तुम्भ
मङ्गल
धेयादि