SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सारोद्धारे हृदयसम्मतो वाच्यवाचकभावलक्षण एव, तत्र च न किञ्चिद्विरुध्यते, यदि च शब्दस्य प्रामाण्यं नाभ्युपगम्यते तदा शब्दप्रामाण्यमुलानामखिलव्यवहाराणामुच्छेदः स्यात् , उक्तं हि-- मङ्गलाभि लौकिकव्यवहारोऽपि, न यस्मिन्नवतिष्ठते । तत्र साधुत्वविज्ञानं, व्यामोहोपनिवन्धनम् ॥ १ ॥ धेयादि इति, अत्र च बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगौरवभयादिति । तत्र 'नमिऊण' नत्वा 'युगादिजिन' युगं-एतदवसर्पिणीरूपः कालविशेषस्तत्र आदीयत इत्यादिः-प्रथमः स चासो जिनश्च-रागद्वपादिदुजयारातिजेता तं ऋषभदेवस्वामिनमित्यर्थः, भवति हि प्रौढविशेषणादनुक्तेऽपि विशेष्यो प्रतिपत्तिः, विशेष्ट यथा--"ध्यानैकतानमनसो विगतप्रचाराः, पश्यन्ति यं कमपि निर्मलमद्वितीयम्" इत्यत्र ध्यानकतानमनमो विगतप्रचारा इति प्रौढविशेषणमामाद्योगिन इति विशेष्यम्यानुक्तस्यापि प्रतिपत्तिस्तथाऽत्रापि ना. भेयदेवस्येति, 'वोच्छं' वक्ष्ये "भन्यानां निर्मलनिजगुणनिकरमाहात्म्येन मिद्धिगमनयोग्यानां प्राणिनां ज्ञाननिमित्तं प्रवचनस्य-द्वादशाङ्गयादिशासनस्य सारोडार-प्रधानकतिपयपदाथोंद्धार 'गुरूपदेशाद्' गुरुकथनात् 'समासेन' संक्षेपेणेति गाथापदार्थः । तत्र 'नमिऊण जुगाइजिणं' इत्यनेन युगादिदेवस्य नमस्कारकरणेन विवक्षितशास्त्रादौ सकलकल्याणमूलं भावमङ्गलं 'वक्ष्ये प्रवचनसारोडार' मित्यनेनाभिधेयं "भव्याना ज्ञाननिमित्त' मित्यनेन प्रयोजनं च प्रत्यपादि, तच्च द्वेधा-प्रकरणाकतु : श्रोतुश्च, एककमपि द्विविध-अनन्तरं परम्परं च तत्र प्रकरणकर्तुरनन्तरं प्रयोजनं प्रवचनसारभूतकतिपयपदार्थान् प्रतिपादयतः सत्चानुग्रहः, परम्परं तु परमपदावाप्तिः, भव्य सत्त्वानुग्रहप्रवृत्तो हि निरवकरसुखनिकराज्यसाम्राज्यनिसर्गरमणीयरमणीवर्गवैभवोद्भासितस्वर्गप्राप्त्यादिपरम्परया परमपदमवश्यमवाप्नोत्येव, यत उक्तम्
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy