________________
................
.
...
...............
..
..
Jane
सारोद्धारे
शाखादी सुधियः प्रवृत्तिमातन्वीरन , प्रतिपादयेयुश्च ते यथा-नारम्भणीयमिदं शास्त्रादि सम्बन्धवन्ध्यत्वात् स्वेच्छाविरचित शास्त्र दिनि, ततस्तेषां शासप्रकरणादिप्रवृत्तो विशिष्टादरनिमित्तं परम्परयाऽहन्मूलनाया- मजलाभि पनार्थमादी गुरुपचक्रमलक्षण: सम्बन्धोऽपि वक्तव्य इत्यादि परिभाच्य प्रेक्षावतां प्रवृपयर्थ पूर्वप्रयक्तप्रयो
धेयादि गाणां चासिद्भूतादिदोपोद्भावनार्थमिमामादिगाथामाह-नमिउण.
__ अत्र च नरिनृत्यमानमानमवृत्तयः सौगताः सनिरन्ते-नन्विदं भवतां गेहेनर्दितमित्र प्रतिमासने, यतः सर्वमेवेदं भवद्भिः कथ्यमानं शोभते यदि शब्दार्थयोः कश्चित्सम्बन्धो भवेत् , न चासो विचार्यमाणश्चाग्मिाण मनति, द्विविधा हि सम्बन्धः-तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्च, तत्र न तावच्छब्दार्थयोस्तादात्म्यलक्षणः सम्बन्धः, स हि य एवार्थः स एव शब्दो, य एव शब्दः स एवार्थ इत्येवं भवेत, एवं च मोदकादिशब्दोचारण मोदकादिना मुखपूरणं भवेत् क्षुरिकादिशब्दोच्चारणे च बदनपाटनादिकं सम्पद्येत, ततस्तावदसी शब्दार्थयोने घटामटाट्यते, न तदुत्पत्तिलक्षणोऽपि सम्बन्धः क्षोदं क्षमते, तथाहि-किं शब्दादर्थ उत्पद्यते ? अर्थाद्वा शब्द इति ? तत्र न तावच्छब्दादर्थ उत्पद्यते, घटादयो हि मृदादिभ्य एवोत्पद्यमाना वीक्ष्यन्ते, न शब्दादिति । यदि तु शब्दादपि घटादयो भावा भवेयुस्तदा न मृदादिपरिशीलनक्लेशमनुभवेयुः कुम्भकारादयः । नाप्यर्थाच्छब्दोत्पत्तिः, ताल्बोष्ठपुटदन्तादिभ्यः पुरुषप्रयत्नसहितेभ्य एव शब्दोत्पत्तिदर्शनात, ततः शब्दार्थयोस्तादात्म्यतदुत्पत्तिलक्षणसम्बन्धद्वयामावेनाऽऽदिवाक्यमभिधेयादिसूचकं निरर्थकमेवेति । तत्र ब्रमः-अनभ्युपगतोपालम्भेन कण्ठशोषक्लेशमनुभवद्भिर्भवद्भिरेवमात्मा निरर्थकमेव कर्थितः, न खल्वस्माभिः शब्दार्थयोस्तादात्म्यतदुत्पत्तिलक्षणः सम्बन्ध इष्यते, किन्तु सर्वस
।