________________
प्रव०
सारोद्धारे।
।। २ ।।
इह हि शिष्टाः क्वचिदभीष्टे शास्त्रप्रकरणादिवस्तुनि प्रवर्तमानाः श्रेयस्काम्यया विशिष्टाभीष्ट देवतानमस्कारपुरस्कारेणैव प्रवर्तन्ते स च यद्यपि कायमनोभ्यामपि क्रियमाणो निखिलविलसद्विघ्नविनाशकत्वेन प्रारिप्सितशास्त्रप्रकरणादिपरिसमाप्तये सम्पनीपद्यते तथापि शास्त्रादौ श्रोतारः सर्वेऽपि शास्त्रादिश्रवणरसिकान्तःकरणाः सकलसिङ्घातविधातनिमित्तमवश्यमानमत देवतास्तवाभिधानपूर्वमेव प्रवर्तन्तामिति श्रोतॄणामभीष्टदेवतास्तव विषयमनीपोन्मेषपरिग्रहार्थमादाविष्टदेवतास्तवोऽभिधेयः, तथा यत्किमपि शास्त्रं प्रकरणादि वा कर्तुमिष्यते तत्रावश्यमादौ प्रेक्षावतां प्रवृत्त्यर्थमभिधेयमभिधातव्यं इतरथा कित्र शास्त्रे प्रकरणrat astrधेयमिति संशयाना न तत्र ते प्रवर्तेरन् वदेयुश्व यथा - नाऽऽरब्धव्यमिदं शास्त्रं प्रकरणादि वा अभिधेयशून्यत्वात् काकदन्तपरीक्षावदिति, यदाहु:
,
"अन्वाऽभिधेयं शास्त्रादी, पुरुषार्थीपकारकम् । श्रवणादौ प्रवर्तन्ते, तज्जिज्ञासादिनोदिताः || १ || safaridar, वाऽऽलोचितकारिणः । काकदन्तपरीक्षादो, प्रवर्तन्ते कदाचन ||२|| "
इत्यादि तथा अभिहितेऽप्यभिधेये न प्रयोजनश्रवणमन्तरेण सहृदयास्तदाद्रियन्ते, प्रेक्षावत्ताक्षतिप्रसङ्गात् यदाहु:प्रयोजनमनुद्दिश्य, न मन्दोऽपि प्रवर्तते । एवमेव प्रवृत्तिश्चेच्चैतन्येनास्य किं भवेत् १ ॥१॥" after ते यथा - नाऽऽरम्भणीयमिदं शास्त्रं प्रयोजनशून्यत्वात्कण्टकशाखामर्द नवदिति, ततः शास्त्रप्रकरणादिप्रारम्भप्रयासनिष्फलताशङ्काश कुसमुद्धरणाय शास्त्रप्रकरणादौ प्रयोजनमपि वक्तव्यं, तथा प्रयोजने दर्शितेऽपि न परम्परया सर्वज्ञमूलताऽवगतिमन्तरेण विविधातीन्द्रियार्थसार्थप्रतिपादके
मङ्गलार धेयादि
॥। २