SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥ ४३१॥ , सत्यमेतत् परं कायस्य वहिरुपयोगी चूर्णः, बहिरन्तवोपयोगी योग इति । यतोऽसावभ्यवहार्याsterदा द्विविधो भवेत् तत्र जलपानादिना अभ्यवहार्यः - आहार्यः, पादप्रलेपादिश्वेतर इति अनयोर्विशेषः १४-१५॥ , 'उपापणाय दोसा सोलसमे मूलकम्मे य' इति एतेऽनन्तरोक्ता उत्पादनाया दोषाः, षोडशो दोषो मूलकर्म- 'अतिगहन भववनस्य मूलं कारणं प्ररोहहेतुः कर्म - सावद्यक्रिया, ततो मूलं च तत्कर्म च मूलकर्म, तत्र गर्भस्तम्भन - गर्भाधान गर्भपाता ऽक्षतयोनित्वकरण-क्षतयोनित्वकरणादिना य उपायते पिण्डः स मूलकर्मपिण्ड: । अयं च साधूनां न कल्पते, प्रद्वेष-प्रवचनमालिन्य-जीवघाताद्यनेकदोषसम्भवात् । तथाहि - गर्भस्तम्भने 'गर्भशातने व साधुना कृते ज्ञाते सति प्रद्वेषो भवति, ततः शरीरस्यापि विनाशः, गर्भाधानाऽक्षतयोनित्वकरणायोश्च यावज्जीवं मैथुनप्रवृत्तिः, गर्भाधानाद्धि पुत्रोत्पत्तौ प्रायष्टा भवति, क्षतयोनित्वकरणे पुनर्भोगान्तरायादीनि १६ ॥५६७ ॥ उक्ताः षोडशाद्युत्पादनादोषाः, अथ दश एषणादोषानाह संकिय १ मक्खिय २ निक्खित ३ पिहिय ४ साहरिय ५ दायगु ६ मिस्से ७ । अपरिणय ८ त्ति छडिय १० एसणदोसा दस हवंति ॥१६८॥ [पिण्डनि. ५२० ] १ तुलना-पिण्डविशुद्धिः गाथा ७५ ॥ २ तुलना पिण्डनियुक्तिवृत्तिः पृ. १४५ B ३ दाय मिस्से - मु । दाय गुम्मीस्से-इति पिण्डनियुक्ती (५२०),, पिण्डविशुद्धौ (७७), पञ्चाशके (१३/२६) पाठः ॥ ६७ द्वार १० एषण दोषाः गाथा ५६८ प्र.आ. १४९ ।।४३१॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy