________________
Hote
:
............
.
प्रवचनसारोद्धारे सटीके
दनादोष गाथा
॥४३०॥
प्र.आ.
माता आसीदित्युक्ते मृतस्य पुत्रस्य स्थानेऽयं मे पुत्र इति बुद्धया तस्मै स्वस्नुषादि दानं कुर्यात् । श्वश्रुरीदृशी ममासीदित्युक्ते च विधर्वा कुरण्डा वा निजसुता दयादित्यादयश्च दोषाः । ततः संस्तवपिण्डो यतीनां न कल्पत इति ११ ॥
'विजा-मंते ति द्वारद्वयं प्रतिपाद्यते । तत्र विद्या-प्रज्ञप्त्यादि स्त्रीरूपदेवताधिष्ठिता जप-होमादिसाध्या वा अक्षरविशेषपद्धतिः । पुरुषरूपदेवताधिष्ठिता पाठमात्रसिद्धा वाऽक्षरविशेषपद्धतिमन्त्रः । तद्वयापारणेन य उपाज्यते पिण्डः स विद्यापिण्डो मन्त्रपिण्डश्च । दोषाश्चात्र- 'यो विद्ययाऽभिमन्त्रिता सन् दानं दाप्यते स स्वभावस्थो जातः कदाचित् प्रद्विष्टोऽन्यो वा तत्पक्षपाती प्रद्विष्टः सन् प्रतिविद्यया स्तम्भनोच्चाटन मारणादि कुर्यात् तथा विद्यादिना परद्रोहकरणरूपेण जीवनशीलाः शठाश्चैते इति लोके जुगुप्सा। तथा कार्मणकारिण इमे इति राजकुले ग्रहणा-ऽऽकर्षण-वेषपरित्याजन-कदर्थन मारणादीनि कुर्यादित्यादयः १२-१३ ॥
चुण्णजोगे' इति द्वारद्वयम् , तत्र चूर्णा-नयना ऽञ्जनादिरन्तर्धानादिफलः, योगः-पादप्रलेपादिः सौभाग्यदीर्भाग्यकरः, एतद्व्यापारणेन य उपाय॑ते पिण्डः स चूर्णपिण्डो योगपिण्डश्च । दोषाश्चात्रापि पूर्ववत् ।
'ननु चूर्ण-योगयोर्द्वयोः क्षोदरूपत्वे सति परस्परं को विशेषः १ येन योगद्वारं पृथगुच्यते, १ तुलना-पिण्डनि. वृत्तिः ४७ ॥२ तुलना-"अथ पूर्णस्य वासानां च परस्परं का प्रतिविशेषो ? योरपि क्षीदरूपत्वात उच्यते, सामान्यद्रव्यनिष्पन्नः शक भाद्रों का क्षोदचूर्णः, सुगन्धद्रव्यनिष्पन्नाश्व शष्कपेषम्पिष्टा बासा, इतरे चानाहार्या योगाः पादप्रलेपनादयः इति पिण्जनियुक्तिवृत्तिः पृ. १४३ B ||
१४८