SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥४२७॥ गृहस्थेन यत्तस्मै दीयते स क्रोधपिण्डः । अथवा 'अन्येभ्यो ब्राह्मणादिभ्यो दीयमाने याचमानोऽपि साधुर्यदा न लभते तदाऽलब्धिमान् सन् कुप्येत, कुपिते च सति तस्मिन् 'साधुः कुपितो भव्यो न भवती' ति atted a status इति । अत्र च सर्वत्र कोप एव पिण्डोत्पादने मुख्यं कारणं द्रष्टव्यम् । विद्या- तपःप्रभृतीनि तु तत्मकारिकारणान्येवेति न विद्यापिण्डादिभिः सहास्य लक्षणसाङ्कर्यमाशङ्कनीयम् ७ ॥ प्राणेति मानो-गर्वस्तद्धेतुकः पिण्डो मानपिण्डः । अयमर्थः कश्विद्यतिः कैश्चिदपरैः साधुभिस्त्वं लब्धमान् ज्ञास्यसे यद्यस्मानिदमिदं च भोजयिष्यसीत्यादिवचनैरुतेजितो न किमपि त्वया सिद्धयतीत्येवमपमानितो वा गर्वाध्मातचेताः, अथवाऽऽत्मनो लब्धि - प्रशंसादिकमपरैर्विरच्यमानमाकर्ण्य यत्र कुत्राप्यहं व्रजामि तत्र सर्वथाऽपि लभे, तथैव च जनो मां प्रशंसतीत्येवं प्रवर्धमानाभिमानमानसः कापि गृहिणः पार्श्वे गत्वा तं गृहिणं तैस्तैर्वचनजातैर्दानविषयेऽभिमाने चटापयति, स च गृही तथाऽभिमानपरः शेषे कलत्रादिके निजलोके दातुमनिच्छत्यपि यदशनादिकं ददाति स मानपिण्डः ८ ॥ 'माय'त्ति 'माया - परवश्चनात्मिका बुद्धिः तया कश्चित्साधुर्मन्त्रयोगाद्युपायकुशलः सन् स्वकीयरूपपरावर्तादिकं कृत्वा यन्मोदकादिकं पिण्डमुपार्जयति स मायापिण्डः ९ ।। 'लोभे य' लोभो - गृद्धिस्तेन यो गृह्यते पिण्डः स लोभपिण्डः । इयमत्र भावना-' कश्चित्साधुरद्याहममुकं १ तुल्यप्रायम् पिण्डनियुक्तिवृत्तिः ४६३ ।। २ तुल्यप्रायं पिण्डविशद्विवृत्तिः पृ. ६४ ॥ ३ द्रष्टव्या-सटीका पिण्डनियुक्तिः ४६५, सटीका पिण्डविशद्धिः ६८ ॥ ४ द्रष्टव्या पिण्डविशुद्धिवृत्तिः प. ६६ B11 ५ तुलना-खटीका पिण्डनियुक्तिः ४८१ । द्रष्टव्या. पिण्डविशुद्धिवृत्तिः ६९ A।। ६७ द्वार १६ उत्पा दनादोषा गाथा ५६६ ५६७ प्र. आ. १४७ ||४२७|
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy