________________
प्रवचन
सारोद्वारे सटीके
॥४२२॥
निमित्तं कथयति, यथाऽतीते दिने तवेदं सुख-दुःखादिकं जातम्, तथा भाविनि का मुकस्मिन् दिने तब राजादेः कः प्रसादो भविष्यति, सम्प्रति चाद्यैव दिने तवेदमिदं च भविष्यतीति । तेऽपि च गृहस्था लामा-लाभ सुख-दुःख जीवित-मरणादिविषयं निमित्तं पृष्टमपृष्टं वा धृष्टेन तेन कथ्यमानं श्रुत्वा आव जितमानसास्तस्मै मुनये मोदकादिकां विशि चि मिट्टी यजसि 'निमित्तपिण्ड उच्यते । न चायं यतीनां कल्पते । आत्म-परोभयविपयाणां वधादिदोषाणामनेकेषामत्र सम्भवादिति ३ ॥
'आजीवि'त्ति आजीवनमाजीवो जीविकेत्यर्थः । स पञ्चविधो-जातिविषयः कुलविषयः, गणविषयः कर्मविपयः, शिल्पविषयश्च । एकैकोऽपि च द्विधा - सूचयाऽसूचया च । सूचया-वचनभङ्गविशेषेण कथनम्, अनूचया तु स्फुटवचनेनेति । तत्र साधुः सूचया असूचया च स्वजातिप्रकटनात् जातिमुपजीवति ।
यथा कविद्भिार्थमटन ब्राह्मणगेहं प्रविवेश । तत्र च ब्राह्मणसुतं होमादिक्रियां सम्यक्कुव चीक्ष्य तज्जनकाभिमुखं स्वजातिप्रकटनाय जल्पति - यथा समिन्मन्त्राऽऽहुति-स्थान-याग-कालधोपादीनाश्रित्य सम्यगसम्यस्वा क्रिया भवेत् । तत्र पिप्पलादीनामार्द्रप्रतिशाखादिखण्डरूपाः समिधः, मन्त्राः प्रणवादिका वर्णपद्धतयः, आहुतिः - अग्नौ घृतादेः प्रक्षेषः स्थानम् - उत्कटुकादिः, यागः अमेधादिः कालः - प्रभातादिः, उदात्ता ऽनुदात्तादयश्च घोपा यत्र यथावत्प्रयुज्यन्ते सा सम्यक्क्रिया,
१ निमिचपिण्डा-सु ॥ २ तुलना-सटीका पिण्डनियुक्तिः ४३७ ||
३ द्रष्टा-सटीका froडनियुक्तिः ४३९-४४० पिण्डविशुद्धिवृत्तिः पू. ६०३
६७ द्वारे
१६उत्पा
दनादोषाः
गाथा ५६६५.६७
प्र. आ.
१४६
॥४२२||