SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके दनादो ॥४१९॥ कुचचम्पितवक्त्रघ्राणः सन चिपिटघ्राणः स्यात् । 'कूपराकारस्तनी च धयन् बाला सर्वदेव स्तनाभिमुखदीघीकृनमुखतया सूचीसदृशवदनः स्यात् । उक्तं च__"निःस्थामा स्थविरी धात्री सूच्यास्यः कूपरस्तनीम् । चिपिटः स्थूलवक्षोजो धयंस्तन्वीं कृशो भवेत् ॥१॥ जाड भवति "स्थूलायास्तनुक्यास्त्ववलङ्करम् । तस्मान्मध्यबलस्थायाः, स्तन्यं पुष्टिकरं स्मृतम् ।।२।।" *तथा अभिनवस्थापिता धात्री येन वर्णेन कृष्णादिना उत्कटा भवति तेन वर्णेन ता निन्दति । यथा ___कृष्णा भ्रंशयते वर्ण, गौरी तु बलवर्जिता । 'ततः श्यामा भवेद्धात्री, बलवर्णैः प्रशंसिता " इत्यादि, एतद् गृहस्वामी श्रुत्वा स्थविरत्वादिस्वरूपां च वर्तमानधात्री परिभाव्य स्फेटयति साधुसम्मता च धात्री करोति । सा च प्रमुदिता तस्मै साधने मनोज्ञां विपुला भिक्षा प्रयच्छतीति धात्रीपिण्डः । अत्र च बहवो दोषाः, तथाहि-या स्फेटिता धात्री सा विद्वेषं याति । तथा सति साधुरयमनया सह स्वेच्छमास्ते इत्यालं ददाति । अतिद्विष्टा च सती विषादिदानतः कदाचिन्मारयत्यपीति । याऽपि चिरन्तनीं स्फेटयित्वा संप्रति स्थापिता साऽपि कदाचिदेवं चिन्तयति, यथाऽहमनेनातनी स्फेटयित्वा धात्री कृता तथाऽन्यया कदाचिदभ्यर्थितो मामपि धात्रीत्वात् स्फेटयिष्यति, ततस्तथा करोमि यथाऽयमेव गाथा५६६ प्र. आ १४५ कृपराकारस्तन्यां-जे ॥२ भवेन्-सं. ।। ३ स्थूराया इति पिण्डनि वृत्तिः ४१८ ॥ ४ तुलना-सदीका विण्ड नियुक्तिः ४१६ । पिण्डविशुद्धिवृत्तिः प.५६ ॥ ५ तेन श्यामा-जे. । तस्मात्छथामा-इति पिण्डनियंक्तिव [५.१२३४ ] पाठः । तस्माच्छस्था-इति पिण्डविशुद्धिवृत्तौ (प-५६B) पाठः।। ६ द्रष्टव्या-सटीका पिण्डनियुक्तिः ४२० । पिण्डषिशुद्धिपत्तिःप. ५६ ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy