SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके ॥४१८॥ १६ उत्पादनादोषाः गाथा ५६६. ५६७ प्र.आ. विपाकवशात्कदाचिद्वालकस्य ज्वरादिमान्ये सजाते त्वया मदीयपुत्रो ग्लानीकृत इत्यादि साधुना सह कलहकरणात्प्रवचनमालिन्यं स्यादिति ।। अथवा कस्यापीश्वरस्य गेहे बालधापनपरी वात्रीं स्वबुद्धिप्रपञ्चेनोत्सार्यान्यां तत्र स्थापयन् धात्रीत्वलक्षणं दोषमासादयति । तथाहि भिक्षाचर्यायां प्रविष्टः कश्चित्साधुः क्वचिद्गेहे महिला काश्चित् सशोकामवलोक्य पप्रच्छ-किं त्वमद्याधृतिपरा दृश्यसे ?, सा प्राह-धार्मिक यते ! दुख दुःखमहायस्यैव कथ्यते, यतिराह-को दुःखसहायो मण्यते १, सा प्राह- यः कथितदुःखप्रतीकारं कुरुते, मुनिराह-मा मुक्त्वा कोऽन्यस्तथाभूतः १, सा प्राह-भगवंस्तहि स्फेटितमपरधाच्या अमुकस्मिन् गृहे मम धात्रीत्वं तेनाई विषण्णेति, ततः साधुरुत्पन्नाभिमानो यावचा न तत्र तथा स्थापयामि न तावत्वदीयां भिक्षा गृहणामीत्यभिधाय स्फेटयितुमिष्टाया धाग्या अदृष्टत्वात् तत्स्वरूपमजानानतस्तस्या एव पार्चे पृच्छति-सा कि तरुणी मध्यमा वृद्धा वा १, प्रतनुस्तनी स्थूलस्तनी कूपरस्तनी वा १, मांसला कृशा वा !, कृष्णा गौरी वेत्यादि । पृष्ट्वा च तत्रेश्वरगृहे गतः सन् तं बालकमालोक्य गृहस्वाम्यादिसमक्षं धात्रीदोषान् ब्र ते । यथा वृद्धा धात्री अबलस्तन्या स्यात् , तां धयन् बालोऽप्याला सम्पद्यते । कृशा च धात्री स्तोकस्तन्या भवेत् , तां धयन् शिशुरपि परिपूर्णस्तन्याभावात् सीदन् कृश एव भवति । स्थूलस्तन्याः स्तन्यं धयन् कोमलाङ्गत्वात् १ तुलना-सटीका पिण्डनियुक्तिः ४१५ सः पिण्डविशुद्धिवृत्तिः प.५६ ॥ २तुलना-"थेरी दुबलखीरा चिमिढो पेल्लियमुद्दो मायणीए । तणुई उ मंदस्वीराकुप्परथणियाप सहमहो। इति पिण्डनि. ४१८ । अवस्था बृत्तिरपिद्रष्टव्या । पिण्डविशुद्धिवृत्तिः (प.५६) मपि तुलनीया।। mashtamily Ji.. shitel HOT
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy