________________
प्रवचनसारोद्धारे सटीके
१६उद्ग दोषाः गाथा
॥४१३॥
चलाद्दाप्यमाना एवं त्रुवते- 'अस्माकमवश्यं चौरंगहीतव्यम् , ततो यदि चौरा अपि यदि युष्मभ्यं दापयन्ति तदा महानस्माकं सन्तोष इति । तत एवं साथिकैरनुज्ञालाः साधवो दीयमानं गृहन्ति । पश्चाचौरेष्वपगतेषु भूयोऽपि तद् द्रव्यं गृहीतं तेभ्यः समर्पयन्ति । यथा तदानी चौरप्रतिभयादस्माभिगृहीत सम्प्रति ते गतास्तत एतदात्मीयं द्रव्यं यूयं गृहणीथेति । एवं चोक्ते सति यदि तेऽपि समनुजानते यथा युष्मभ्यमेव तदस्माभिर्दत्तमिति तर्हि भुञ्जते कल्पनीयत्वादिति १४ ।
'अणिसिद्धे'त्ति 'न निसृष्ट-सर्वैः स्वामिभिः साधुदानार्थमनुज्ञातं यत्तदनिसृष्टम् । तत् 'विधासाधारणानिसृष्टं चोन्लकानिसृष्टं जड्डानिसृष्टं च । तत्र साधारण-बहुजनसामान्यम् , चोलकस्वामिना पदातिभ्यः प्रसादीक्रियमाणम् , कौटुम्बिकेन वा क्षेत्रादिस्थितकर्मकरेभ्यो दीयमानं देशीभाषया भक्तमुच्यते, जड्डो-हस्ती तैरनिसृष्टम्-अननुज्ञातं न कल्पते साधूनाम् ।
तत्र साधारणानिमुष्टं च यन्त्र हट्ट-गृहादिस्थिततिलकुट्टि-तैल-वस्त्र-लड्डुक-दध्यादिदेयवस्तुभेदेनानेकवस्तुविषयम् । तत्र घाणकादियन्त्रे तिलकुट्टि-तैलादिकम् , हट्ट वस्त्रादिकम् , गृहेऽशनादिकम् । बहुजनसाधारणं च सर्वैः स्वामिभिरननुज्ञातं यदेकः कश्चित्साधुभ्यः प्रयच्छति तत् साधारणानिसृष्टम् ।। १ तलना-पिण्डनिटीका गाथा ३७६, प. ११३॥२ तुलना-पिण्डनि. वृत्तिः पृ. ३५8 ।। ३ तुलना-पिण्डविशद्धिवृत्ति प्र.४९ "लाइंग चोल्लग जंते संखडि खीरावणणाईसु" पिण्डनि. ३७७ । "तरुचानिसृष्टमनेकधा तद्यथा-'लडकविषयम, मोदकविषयम, तथा 'चोल्लकविषयम्' मोजनविषयम्, 'यन्त्रे' इति 'कोल्हकादिषाणविषयम, तथा 'संखडिविषयम' विवाहादिविषयम, तथा 'क्षीरविषयम् दुग्धविश्यम् , तथा आपणादिविषयम, आदिशदादुर गृहादिविषयमबसेयम् । इति तत्रैवटीकायाम् पू. ११३ ।
प्र.आ.
EREST
॥४१३