SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ॥४१२॥ मादयः । तस्मान्मालापहृतं साधुभिर्न ग्राह्यम् , 'यत्पुनर्ददरसोपानादीनि सुखावताराण्यारुह्य ददाति तन्मालापहृतं न भवति । केवलं माधुरप्येषणाशुद्धिनिमित्तं प्रासादस्योपरि दर्दरादिना चटति, अपवादेन भूस्थोऽप्या ६७ द्वारे नीतं गृह्णातीति १३ । दोषाः 'अच्छिज्जे' ति आच्छिद्यते-अनिच्छतोऽपि मृतक-पुत्रादेः सकाशाद साधुदानाय परिगृह्यते गाथा यत्तदाच्छेद्यम् । तत् त्रिविधं-स्वामिविषयं प्रभुविषयं स्तनविषयं च । तत्र ग्रामादिनायकः स्वामी, स्वगृहमात्रनायकः प्रभुः, स्तन:-चौरः, ततो ग्रामादिस्वामी यतीन् दृष्ट्वा भद्रकतया कलहेनाकलहेन वा ५६५ बलादपि साधुनिमित्त कौंटुम्बिकेभ्यः सकाशादशनाद्याच्छिद्य यतिभ्यो यद्ददाति तत् स्वामिविषयमान्छेयम् । प्र. आ. तथा यगोरक्षक-कर्मकर पुत्र-पुत्रिका-वधू-भार्यादिसत्कमेतेभ्योऽनिच्छद्भ्योऽपि सकाशाद् गृहीत्वा | १४३ गृहनायकः माधुभ्यो दुग्धादिकं दद्यात्तत्प्रभुविषयमाच्छेद्यम् । तथा स्तेना अपि केचित् संयतान् प्रति भद्रका भवन्ति, ततस्ते मार्गे आगच्छन्तः कदाचित्तथाविधसार्थेन सार्धमागतान् भोजनार्थ कृतावस्थितेः सार्थस्य मध्ये भिक्षामटनः परिपूर्णान्नमप्राप्नुवतश्च संयतान् दृष्ट्वा तनिमित्तमात्मनो वाऽर्थाय सार्थिकेभ्यो बलादाच्छिद्य पाथेयादि यदि साधुभ्यो दास्तत् स्तेनविषयमाच्छेद्यम् , एतत् त्रिविधमपि आच्छेयं साधना न कल्पते । अनीति-कलहा.ऽऽत्मघाता-ऽन्तराय-प्रद्वेषाद्यनेकदोषसम्भवात् केवलं स्तनाच्छेद्येऽयं विशेषःयथा येषां सम्बन्धि भक्तादि बलादाच्छिद्य चौराः साधुभ्यः प्रयच्छन्ति, त एव सार्थिका यदि स्तेनै१ द्रष्टव्या-सटीका पिण्डनियुक्तिः गाथा ३६५॥२ तुलना-पिण्ड निवृत्तिः पृ. ३५ B . " ॥४१२॥ ३ द्रष्टव्या-सटीकापिण्डनियुक्तिः गाथाः ३६६ तः ।।
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy