________________
प्रवचन सारोद्धारे सटोके
॥४०५॥
द्वितीय च प्रकारे अन्य सादिकं याचमानस्य तस्य दुष्कररुचेविशिष्टतरेऽपि दत्ते महता कष्टेन रुचिरापादयितु शक्यते । ततः तमाश्रित्य कलहादयो दोषाः सम्भवन्तीति ।
'परियटिए' ति परिवर्तितं यत्साधुनिमित्तं कृतपरावर्तम् , 'तद् द्विविध-लौकिकं लोकोत्तरं च, एकैकमपि द्विधा-तद्र्व्यमन्यद्रव्यविषयं च । तत्र तव्यविषयं यथा कुथितं घृतं दत्त्वा साधुनिमित्तं सुगन्धि घृतं गृह्णातीत्यादि । अन्यद्रव्यविषयं यथा कोद्रवकूर समर्पयित्वा साधुनिमित्त शाल्योदनं गृहणातीत्यादि । इदं च लौकिकमेव, लोकोत्तरमपि साधोः साधुना सह वस्त्रादिपरावर्तनस्वरूपम् , इति द्विधा भावनीयम् , दोषायात्रापि प्राग्वदेव १०
___ 'अभिहडे' त्ति 'अभि-साध्वभिमुखं हृतं-गृहस्थेन स्थानान्तरादानीतमभिहृतम् , तद् द्विधाअनाचीर्णमाचीर्ण च । तत्रानाचीर्ण द्विविध-प्रच्छन्नं प्रकटं च । सर्वथा साधुना अभ्याहृतत्वेन यदपरिज्ञातं तत्प्रच्छन्नम् , यत्पुनरम्याहृतत्वेन ज्ञातं तत्प्रकटम् , एकैकमपि द्विविध-स्वग्रामविषयं परग्रामविषयं च । यस्मिन् ग्रामे साधुर्निवसति स किल स्वग्रामः, शेषस्तु परग्रामः ।
तत्र काचित् श्राविका भक्तियुक्ता साधूनां प्रतिलामनायाभ्याहृताशङ्कानिवृत्यर्थ प्रहेणकमिषेणोपाश्रये मोदकाचानीय साधुसंमुखमेवं वदति-यथा भगवन् ! मया भ्रातृगेहादी सङ्खडयां वा गतया इदं लब्धम् , यद्वा मया स्वजनानां गृहे प्रहेणकमिदं स्वगृहानीतम् , तैश्च रोषादिना केनापि कारणेन न गृहीतम् , १ द्रष्टव्या सटीका पिण्डनि. गाथा ३२३ तः ॥२तुलना-पिण्डनि. वृत्तिः पृ. ३५B | दशवै भग-चू । दशवै.जिनः चू.पृ. ११२ । दशहा-टी.११६।। ३ द्रष्टव्या सटीका पिण्डनियुक्तिःगाथा ३२६ तःपिण्डविशुद्धिवृत्तिः४६॥ ४ द्रष्टव्या सटीका पिण्डनियुक्तिः गाथा ३४१, ३४२ । पिण्डविशुद्धिवृत्तिः पू. ४१॥
गाथा ५६ ५६ प्र.अ
१४
४.