________________
प्रवचन
सटीके
1180311
'कीय'त्ति क्रीतं यत् साध्यर्थं मृन्यादिना परिगृहीतम्, तच्च चतुर्धा - आत्मद्रव्यक्रीतम्, आत्मभावक्रीतम्, परद्रव्यक्रीतम्, परभावक्रीतं च तत्रात्मना - स्वयमेव द्रव्येण - उज्जयन्तादितीर्थशेषादिसारोद्वारे रूपपरावर्तादिकारिगुटिका- सौभाग्यादिसम्पादक रक्षाटकादिरूपेण प्रदानतः परमावर्जयन् भक्तादि गृह्णाति तदात्मद्रव्यक्रीतम्, दोषाश्चात्र उज्जयन्तादितीर्थशेषादिसमर्पणानन्तरमेव दैवयोगेन तस्य गृहिणोऽकस्मादेव ज्वरादिके मान्छे जातेऽनेन साधुनाऽहं निराकुलः सन् ग्लानीकृत इत्यादिप्रजल्पनतः शासनस्य मालिन्यं स्यात् । एवं ज्ञाते च राजादयः कर्षण कुट्टनादिकं विदभ्यः । " अथाग्रतो मन्दः सन् तेन शेषादिना समर्पितेन नीरोगः सम्पद्यते तदा चाटुकारिण एते यतय इत्यृड्डाहो लोकस्य जल्पतो भवेत् । तथा निर्माल्यादिप्रदानेन प्रगुणीभूतशरीस्य गृहव्यापारादिप्रयोजकतया षड्जीवघातापनः कर्मबन्धः स्यादित्यादयः १ ॥ " तथा आत्मना - स्वयमेव भक्ताद्यर्थं धर्मकथक-वादि-क्षपका-ऽऽतापक- कविप्रमुखैः धर्मकथोपन्यासादिलक्षणेन भावेन विधीयमानेन धर्मकथोपन्यासाद्याक्षिप्तेभ्यो जनेभ्यो यदशनादिकं गृह्यते तदात्मभावक्रीतम्, दोषाश्चात्र निर्मलनिजानुष्टाननिष्फलीकरणादयः २ । तथा परेण - गृहस्थेन साधुनिमित्तं सचित्ताऽचित्त-मिश्रभेदेन द्रव्येण कृत्वा यदशनादिकं क्रीतं तत्परद्रव्यक्रीतम् अत्र च षट्कायविराधनादयः प्रतीता एव दोषाः ३ ।
१ तुलना-पिण्डनिवृत्तिः पृ. ३५८ ॥ "क्रेतुम् अन्यसत्कं यत्कं तु दीयते क्रीतकृतं । इति दशवै. चूर्णिः पू. १११ । क्रयणं क्रीतम, भावे निष्ठाप्रत्ययः साध्वादिनिमित्तमिति गम्यते, तेन कृतं निर्वर्तितं क्रीतकृतम्।" इति । दशवे-हाटी. प. ११६॥ २ तुलना सटीका पिण्डनियुक्तिः गाथा २०६-३०८ ॥ ३०रक्षादि० सं ॥ ४ गृह्यते-जे । परभावज्ये यद्भवादि गृह्यते इति पिण्डनियुक्ति टीका पृ. ९६ ॥ ५ रथवा भृतो मंदेः सन् सं ॥ ६ तुलना-सटीका पिण्डनियुक्तिः
गाथा ३०७-३१२ ।।
६७ द्वारे १६ उद्गमदोषाः
गाथा
५६३५६५
प्र. आ
१४०.
द
॥४०३॥