________________
प्रवचन
सारोद्वारे
सटीके
॥३९९।।
'मिसजाए य' चि 'मिश्रेण कुटुम्बप्रणिधान साधुप्रणिधानमीलनरूपेण भावेन जातं - पाकादिभावमापन्नं यद्भक्तादि तन्मिश्रजातम्, तत् 'त्रिधा - यावदर्थिकं पाखण्डिमिश्रं साधुमिश्रं च तत्र दुर्भिक्षादौ बहून भिक्षाचरानुपलभ्य तदनुकम्पया यावन्तः केचन गृहस्था अगृहस्था वा भिक्षाचराः समागमिष्यन्ति तेषामपि भविष्यति कुटुम्बे चेति बुद्धितः सामान्येन भिक्षाचरयोग्यं कुटुम्बयोग्यं चैकत्र मीलितं यत्पच्यते तद्यावदर्थिकमिश्रजातम् । यत्तु केवलपाखण्डियोग्यमात्मयोग्यं चैकत्र पच्यते तत्पाखण्डिमिश्रम् | यत्पुनः केवल साधुयोग्यमात्मयोग्यं चैकत्र पच्यते तत्साधुमिश्रम् श्रमणानां पाखण्डिष्वन्तर्भावविवक्षणात् श्रमणमिश्रं प्रथ नोक्तम् ४ |
'ठवण "स्थाप्यते साधुनिमित्तं कियन्तं कालं यावन्निधीयते इति स्थापना । यद्वा स्थापनं - साधुभ्यो देयमिदमितिबुद्धा देववस्तुनः कियन्तं कालं व्यवस्थापनं स्थापना, तद्योगाद्देयमपि स्थापना | स्वस्थाने- चुल्ली स्थाल्यादौ परस्थाने सुस्थितकच्छच्कादौ चिरकालमित्वरकालं च साधुदाननिमित्तं धार्यमाणमशनादिकं स्थापनेति भावः ५ ।
'पाहुडियाए 'ति 'कस्मैचिदिष्टाय पूज्याय वा बहुमान पुरस्सरीकारेण यदभीष्टं वस्तु दीयते तत् प्राभृतमुच्यते, ततः प्राभृतमित्र प्राभृतं - साधुभ्यो देयं भिक्षादिकं वस्तु, प्राभृतमेव प्राभृतिका । यह प्र इति प्रकर्षेण, आ इति-साधुदानलक्षणमर्यादया, भृता- निर्वर्तिता यका भिक्षा सा प्राभृता, ततः
१ तुलना-पिण्डनि. वृत्तिः पृ. २५ ।। २ तुलना-पिण्डनियुक्तिटीका पू.
॥
३ बुध्यतः - जे. ॥ ४ तुलना-पिण्डनि. वृतिः पृ. ३५ ॥ ५ तुलना-पिण्डनि वृतिः पू. ३५ ॥
६७ द्वारे १३ उद्गम
दोषाः
गाथा
५६३
५६५ प्र.आ.१३८
॥३९९॥