SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ६७ द्वारे १६उद्गमदोषाः गाथा मीति चिन्तयति तदा तदेवादेशाभिधम् यदा च निग्रन्थानामेव-आर्हतयतीनां दास्यामीति परामृशति तदा तत् समादेशनामकम् । न चैतदनापम् , यत उक्तम् - ': 'जातियमुईस पायोड भये समुस । समणाणं आएसं निग्गंथाणं समाएसं [पिण्डनियुक्ति२३०] ॥१॥" इति । सर्वमङ्ख्यया विभागौद्देशिकं द्वादशप्रकारं भवति । अथ आधाकर्म-कमौंदेशिकयोः कः परस्परं प्रतिविशेषः ?, उच्यते, यत्प्रथमत एव साध्वर्थ निष्पादितं न स्वार्थ तदाधाकर्म, यत्पुनः प्रथमतः स्वार्थ निष्पादितं सत् भूयोऽपि पाककरणेन संस्क्रियते तत्कमौदै शिकमिति २।। ___'पूई-कम्मे य' त्ति उद्गमादिदोषरहिततया पूतेः-पवित्रस्य सतो भक्तादेरन्यस्याविशुद्धकोटिकभक्तादेग्वय वेन सह सम्पर्कानपूत-प्रतिभतस्य कर्म-करणं पूतिकर्म । तद्योगाद्धक्ताद्यपि पूतिकर्म । अयमर्थः-यथा सौरभ्यमनोहरत्वादिगुणे विशिष्टमपि शाल्यादिभोजनद्रव्यं कुथितगन्धा-ऽशुच्यादिद्रव्यलवेनापि युक्तमपवित्रं स्याद्विशिष्टजनपरिहार्य च "तथा निरतिचारचारित्रिणो यतेर्निरतिचारचारित्रस्य सातिचारनयाऽपवित्रत्वकरणेनाविशोधिकोटीनामवयवमात्रेणापि संयुक्तः स्वरूपतः परिशुद्धोऽप्याहार उपभुज्यमानो भावपूतेः कारणत्वात् पूतिरिति । तथा आधाकर्मिकाद्यवयवलेशेनापि संश्लिष्टाः स्थालीचटुककरोटिकादयोऽपि पूतित्वात्परिहर्तव्याः ३ ।। प्र.आ. १३८. A यावतामुई पाखण्डिनां समुद्देशं भवेत् । श्रमणानामादेश निर्ग्रन्थानां समादेशम् ॥।॥ १ यातिय० सं० ॥ २ तुलना-पिण्ठनि. टीका पृ. ३५ । "पूतिकर्म सम्भाव्यमानाधाकर्मावयव संमीश्रलक्षणम्-" दशव हा-टी-पृ.१७४॥ ३ पूते. कर्म-सं. ॥ ४ द्रष्टव्या-सटीका पिण्डनियुक्तिः गाथा २४॥ ५ द्रष्टव्या-सटीका पिण्डनियुक्ति गाथा २४७ ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy