________________
प्रवचनसारोद्धारे सटीके
६७ द्वा १६उद्ग दोपाः गाथा
॥३९॥
प्रायेण भवति-इह कश्चिदनुभूतदुर्भिशत्रुभुशः सम्प्राप्त सुभिशो गृहस्थश्चिन्तयति, यथा-जीवितास्तावद्वयं कथमपि महाकष्टेनास्मिन् दुर्भिः इदानीं किमपि सम्प्राप्तवर्तनस्य प्रतिदिनमर्थिजनसम्पूर्ण भोजनदानशत्यभावे मम मिक्षा अपि तावत्कियत्योऽपि दातुं युक्ताः, यतो नादत्तमिह जन्मन्यमुत्र च स्वर्गाद्यवाप्त्योपभुज्यते, दत्तस्यैव भोगात् , नाप्यकृतं पुण्यं स्वर्गगमनाद्यवाप्तये सम्पद्यते, कृतस्यैव फलदानसमर्थत्वादिति, ततः पुण्योगार्जनमा यदा गृहिणा प्रतिदिवसं यावत्प्रमाणं मक्तं पच्यते तावत्प्रमाणे एव भक्ते पक्तुमारभ्यमाणे पाखण्डिनां गृहिणां वा मध्ये यः कोऽपि समागमिष्यति तस्य भिक्षादानार्थमेतावत् स्वार्थमेतावच्च भिक्षादानार्थमित्येवं विभागरहितमेव तण्डुलानधिकतरान् प्रक्षिपति तदा ओघौद्देशिकं भवति । विभागोदे शिकं पुनः प्रथमं तावत् विधा-उद्दिष्टं कृतं कर्म च, 'तत्र स्वार्थमेव निष्पन्नमशनादिक भिक्षाचराणां दानाय यत्पृथक्कल्पितं तदुद्दिष्टम् , यत्पुनरुद्धरितं सत् शाल्योदनादिकं भिक्षादानाय करम्बादिरूपतया कृतं तत्कृतमित्युच्यते । यत्पुनर्विवाहप्रकरणादावुद्धरितं मोदकचूर्णादि तद्भूयोऽपि भिक्षाचराणां दानाय गुडपाकदानादिना मोदकादिरूपतया कृतं तत्कर्मेत्यभिधीयते । एकैकमपि पुनश्चतुर्धा-उद्देश समुद्देशाऽऽदेश समादेशभेदात् । तत्र यदुद्दिष्टं कृतं कर्म का विभोगौद्देशिकं यावन्तः केऽपि भिक्षाचराः पाखण्डिनो गृहस्था वा समागमिष्यन्ति तेभ्यः सर्वेभ्योऽपि दातव्यमिति यदा सङ्कल्पितं भवति तदा तदुहेशसंत्रमुच्यते । यदा पुनः पाखण्डिना देयत्वेन कल्पयति तदा तत् समुद्देशाख्यम् । यदा श्रमणानां शाक्यादीनां दास्या
प्र.आ.
१ तुलना पिण्डनियुक्तिवृत्तिः पृ. ६ || २ तुलना-पिण्डनियुक्तिवृत्तिः पृ. ७ । पिण्डविशुद्धिः गाथा ३० ॥