SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके तत्र तावदुगमविषयान् पोडश दोषानामग्राहमाह-'आहाकम्मे' त्यादिगाथाद्वयम् , आधाकर्मादयोऽध्यवपूरकान्ताः षोडश पिण्डोद्गमविषया दोषा भवन्तीतिगाथाद्वयस्य परमार्थः । तत्र 'आहाकम्म ति। । ६७ द्वारे १६उद्गम 'आधानमाधा-साधुनिमित्तं चेतसः प्रणिधानम् यथा अमुकस्य साधोः कारणेन मया भक्तादि पचनीयमिति । आधया कर्म-पाकादिक्रिया आधाकर्म तद्योगाद्भक्ताद्ययाधाकर्म । इह दोषाभिधानप्रक दोषाः । गाथा मेऽपि यद्दोपवतो भक्तादेरभिधानं तद्दोष-दोषवतोरभेदविवक्षया द्रष्टव्यम्, एवमन्यत्रापि । यद्वा आधायसाधु चेतसि प्रणिधाय यत् क्रियते भक्तादि तदाधाकर्म, पृषोदरादित्वाद्यलोपः, साधुनिमित्तं सचित्तस्याचित्तीकरण मचित्तस्य वा पाक इति भावः १।। प्र.आ. 'उद्देसिय' ति 'उद्देशनमुद्देशो-यावदर्थिकादिप्रणिधानं तेन निवृत्तं तत्प्रयोजनं वा औद्देशिकम् । तद् द्विविधम्-ओपेन विभागेन च । तत्र ओघः-सामान्यम् , विभागः-पृथक्करणम् , इयमत्र भावनानादत्तमिह किमपि लम्यते, ततः कतिपया भिक्षा दद्म इति बुद्धया कतिपयाधिकतण्डुलप्रक्षेपेण यनिवृत्तमशनादि तदोघौद्देशिकम् ओधेन-सामान्येन स्व-परपृथग्विभागकरणाभावरूपेण औद्देशिकमोघौद्देशिकमिति व्युत्पत्तेः । तथा विवाहप्रकरणादिषु यदुद्धरितं तत्पृथक्कृत्वा दानाय कल्पितं सद्विभागौद्देशिकम् , विभागेन-स्वसत्ताया उत्तार्य पृथक्करणेनोद्देशिक विभागौद्देशिकमिति व्युत्पत्तेः । तत्रौघौद्देशिकमेवं १ तुलना-पिण्डनियुक्तिवृत्तिः पू. ३५०॥ २०मचित्तस्य अचित्तीकरणमचीत्तस्य व पाक-स.॥ ॥३९६॥ ३ तुलना-पिण्डनि. वृत्तिः पृ. ३५ ॥ ॥ ४ तुलना-पिफ्डनियुक्तिवृत्तिः पृ. ७.A... ५ तुलना-सटीका पिण्डनियुक्तिः गाथा २२०-१, पृ.७७ B| पञ्चाशकटीका १३/50...
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy