________________
प्रवचनसारोद्धारे सटीके
६७ द्वा
॥३१३॥
सप्ततिः गाथा
प्र.आ.
अथ द्वादशप्रकारं तप आह-'अणसण' 'मित्यादि, 'पायच्छित्त'मित्यादि, गाथाद्वयम् , एतत्स्वरूपं च तपोऽतिचारव्याख्यायां पूर्वमेव व्याख्यातम् , न पुनरिहोच्यते ॥५५६-५६०॥
अथ क्रोधनिग्रहादीनाह-कोही' इत्यादि, क्रोधी मानो माया लाभश्चत्वारो भवन्ति कषायाः, कष्यन्ते-हिंस्यन्ते प्राणिनो यत्रासौ कप:-संसारस्तमेति-त्राप्नोति प्राणी यैस्ते कषायास्तेषां निग्रहणंनियन्त्रणम् इति, चरणस्य चारित्रस्यैते-पूर्वोक्ता भेदाः सप्ततिसङ्ख्या भवन्ति ॥
व्रतानां पञ्चके श्रमणधर्मस्य दशके संयमसम्बन्धिनि सप्तदशके वैयावृत्यदशके ब्रह्मगुप्तिनवके ज्ञानादीनां त्रिके तपसो द्वादशके क्रोधनिग्रहादीनां च चतुष्के मिलिते एतत्संख्यासम्भवादिति ।।५६१॥६६॥ इदानीं 'करण' ति सप्तपटं द्वारमाह
पिंडविसोही ४ समिई ५ भावण १२ पडिमा १२ य इंदियनिरोहो ५ पडिलेहण २५ गुत्तीओ ३ अभिग्गहा ४ चेव करणं तु ७० ॥५६२॥ [ओघनि. भा. ३]
'पिंथविसोही' इत्यादिगाथा, 'पिडि सङ्घाते' इत्यस्य 'इदितो नुम् धातोः' (पा० ७-१-५८) इति नुमि कृते पिण्डनं पिण्डः-सझातः, बहूनां सजातीयानां विजातीयानां वा कठिनद्रव्याणामेका समुदाय इत्यर्थः, समुदायश्च समुदायिभ्यः कथश्चिदभिन्न इति त एच बहवः पदार्था एकत्र संश्लिष्टाः पिण्डशन्देनोच्यन्ते, तस्य विविधम्-अनेकैराधाकर्मादिपरिहारप्रकारैः शुद्धिः-निर्दोषता पिण्डविशुद्धिः । सं-सम्यक्
१ मित्यादि गाथाद्वयं-सं. ॥ २ भवन्ति कष्यन्ते-जे॥ ३ पिढत्यादि-मु.॥