SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ प्रवचनभागमा सटीके चरणसप्ततिः गाथा ॥३९२॥ ५६१ प्र.आ. तदेकाग्रचित्तश्चिन्तयेत् , तदवलोकनतच्चिन्तनयोर्मोहोदयहेतुत्वात् ४ । तथा कुडधान्तर-पत्रान्तरस्थेऽपि कुडथादी दम्पत्योः सुरतादिशब्दः श्रूयते ब्रह्मचर्यभङ्ग भयाच्च तत्परित्यागः ५ । तथा 'पूर्व-गृहस्थावस्थायां क्रीडितं-स्त्रीसम्भोगानुभवलक्षणं द्यूनादिरमणलक्षणं वा नानुस्मरेत्,तत्स्मरणेन्धनक्षेपात्स्मराग्निः संधुक्ष्यते । तथा प्रणीतम्-अतिस्निग्धमधुरादिग्मं भक्तं न भुञ्जीत, 'निरन्तरं घृष्य-स्निग्धरसप्रीणितो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्मापि सेवते ७ । तथा रूझभैश्यस्याप्यतिमात्रमाहारम्-आकण्ठमुदरपूरण वर्जयेत्, ब्रह्मक्षतिकारित्वात् शरीरपीडाकारित्वाच्च ८। तथा विभूषणा- स्नान-विलेपन- धूपन-नख. दन्त-केशसंमार्जनादिः स्वशरीरस्य संस्कारम्तां न कुर्यात् , अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिकामयर्विकल्पवृथाऽऽत्मानमायासयतीति है । एता ब्रह्मचर्यम्य-मैथुनव्रतस्य गुप्तयः-परिरक्षणोपाया ब्रह्मचर्यगुप्तयो नव भवन्ति ।।५५७।। __ अथ ज्ञानादित्रिकमाह-'घारसे'त्यादि, ज्ञानं-कर्मक्षयोपशमसमुत्थोऽवयोधः, तद्धेतुत्वाद् द्वादशाङ्गादिकमपि ज्ञानम्, आदिशब्दादुपाङ्गप्रकीर्णादिपरिग्रहः । तथा तत्त्वानि-जीवा-ऽजीवा-ऽऽश्रव-संवर निर्जराबन्ध-मोक्षलक्षणानि, तेषामर्थः-अभिधेयम् , तस्य श्रद्धानं- तथेतिप्रत्ययरूपा रुचिरेतद्दर्शनम् । तथा सर्वेभ्यः पापव्यापारेभ्यो विरतिः-ज्ञान-श्रद्धानपूर्वकं परिहारश्चरणम् , तच्च द्विविध-देशतः सर्वतश्च, तत्र देशता श्राद्धानाम् , सर्वतः साधूनामिति ॥५५८॥ १ तुलना-योगशास्त्रटीका १।३०-३१,पृ. १२६ ॥ २ तुलना-योगशास्त्रटीका १/३०-३१ ॥ पृ. १२६ ।। ३ तुष्ठमा योगशास्त्रटीका १ । ३०-३१, पृ. १२६। ४ ०धूपनख० से.॥ ॥३९२
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy