SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके ॥३८८|| चैतत् तेन शरीरधर्मोपकरणादिष्वपि निर्ममत्वमाकिञ्चन्यम्, नवब्रह्मचर्यं गुप्तिसनाथ उपस्थसंयमो ब्रह्म, एप दशप्रकारो यतिधर्मः अन्ये त्वेवं पठन्ति " खंती मुक्ती अज्जव मद्दव वह लाघवे तवे चेव । संजम 'चियाग किञ्चण बोद्धव्वे बंभचेरे य ॥ १ ॥” तत्र लाघवं द्रव्यतोऽल्पोपधिता भावतो गौरवपरिहारः, त्यागः - सर्वसङ्गानां विमोचनं संयतेभ्यो वस्त्रादिदानं बा, शेषं प्रावद ॥ ५५३ ॥ अथ संयममाह-‘पंचासवे' त्यादि, आश्रूयते-उपायते कर्म एभिरित्याश्रवाः - अभिनव कर्मबन्धहेतवः प्राणातिपात मृषावादा ऽदत्तादान- मैथुन- परिग्रहलक्षणाः पञ्च तेभ्यो विरमणं - त्रिनिवर्तनम् इन्द्रियाणिस्पर्शन रसन-प्राण- चक्षुः श्रोत्रलक्षणानि पञ्च तेषां निग्रहो नियन्त्रणम्, स्पर्शादिषु विषयेषु लाम्पटयपरिहारेण वर्तनम् : कषायाः - क्रोध- मान-माया लो भलक्षणाश्चत्वारस्तेषां जय:-अभिभवः, उदितानां विफलीकरणेन अनुदितानां चानुत्पादनेन दण्डयते चारित्रँश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डा- दुष्प्रयुक्ता मनोवाक्कायास्तेषां त्रयं दण्डत्रयम् तस्य विरति:- अशुभप्रवृत्तिनिरोधः, एष सप्तदशविधः संयमो भवति ॥ ५५४॥ , अथवाऽन्यथा सप्तदशविधः संयमो भवति - 'पुढवीत्यादि पृथिव्युदकाऽग्निमारुत-वनस्पतिद्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रिय- पञ्चेन्द्रियाणां मनोवाक्कायकर्मभिः करण-कारणा-ऽनुमतिभिश्च संरम्भ-समारम्भाssवर्जनमिति नवधा जीवसंयमः, तत्र १ चाओ - धर्मसङ्मवृत्तिः मा.२ | पृ. १२८ ॥ २ सप्तदशसंयमानां तुलना योगशास्त्रटीका ४६३ ॥ ६६ द्वारे चरण सप्ततिः गाथा. ५५१ ५६१ प्र.आ. १३५ ||३८८||
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy