________________
प्रवचन
सारोद्वारे सटोके
॥३८६ ॥
रूपाष्टविधप्रमादयोगाद्वधो-हिंसनं प्राणिवधस्तस्माद्विरतिः- सम्यग्ज्ञानश्रद्धान पूर्विका निवृत्तिः प्रथमव्रतम्, मृषा - अलीकम् 'बदनं- प्रिय पथ्य-तथ्यवचन परिहारेण भाषणं मृषावादस्तस्माद्विरतिर्द्वितीयं व्रतम्, * तत्र प्रियं वचनं यत् श्रुतमात्रं प्रीणयति, पथ्यं यदुत्तरकाले हितम्, तथ्यं सत्यम्, तथ्यमपि व्यवहारापेक्षया यदप्रियम्, यथा चौरं प्रति चौरस्त्वं कुष्ठिनं प्रति कुणी त्वमिति तदप्रियत्वान्न तथ्यम्, तथ्यमपि दहितं यथा मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो मया मृगा दृष्टा इति, तज्जन्तुजातघातपापनिमित्तत्वाद् न तथ्यमिति, अदत्तस्य - खामिनाऽवितीर्णस्यादानं ग्रहणम् अदत्तादानम्, तच्च स्वामि जीवतीर्थकर गुर्वदत्तभेदेन चतुर्विधम् तस्य दाह-पाषाणादिकं तत्स्वामिना यददत्तम्, जीवादत्तं - यत्स्वामिना दत्तमपि जीवेनादत्तम्, यथा प्रव्रज्यापरिणामरहितो माता- पितृभ्यां पुत्रादिगुरुभ्यो दीयते सचित्त पृथ्वीकायादिर्वा तद्धि तत्स्वामिना दत्तमपि तदधिष्ठायकजीवैरदत्तमिति, तीर्थंकरादत्तं यत्तीर्थकरैः प्रतिषिद्धमधाकर्मादि गृह्यते, गुर्वदत्तं नाम स्वामिना दत्तमाधाकर्मादिदोषरहितं गुरूनननुज्ञाप्य यद् गृह्यते तस्माद्विरतिस्तृतीयं व्रतम्, मिथुनं - स्त्री- पुसद्वन्द्वं तस्य कर्म मैथुनं तस्माद्विरतिश्चतुर्थं व्रतम्, परिगृह्यते- " आदीयते असाविति *परिग्रहः, * परिग्रहणं वा परिग्रहः, स च धन-धान्य-क्षेत्र - वास्तु-रूप्य सुवर्ण चतुष्पदद्विपद-कूप्यभेदान्नवविधस्तस्माद्विरति:- मूर्च्छापरिहारेण निवृत्तिः, 'मुच्छा परिग्गहो बुत्तो' इतिवचनात् 'न तु द्रव्यादित्यागमात्रम्, यस्मादविद्यमानेष्वपि द्रव्य-क्षेत्र काल-भावेषु मूर्च्छया प्रशमसौख्यविपर्यासेन चित्त
१ वचनं सं. ॥ २ तुलना-योगशास्त्रटीका ११२१|| धर्म संप्रहवृत्तिः ३४२ ॥ ३ तुलना योगशास्त्रटीका १। २२ ॥ ** चिह्नद्वयमध्यवर्तीपाठः सं. नास्ति ॥ ४ तुलना - योगशास्त्रटीका १२४ ॥
६६ द्वारे
चरण
सप्ततिः
गाथा
५.५१
५६१
प्र. आ.
१३४
॥३८६॥