SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके चरण ॥३८५ ग्रहणे संयम-तपसोरुपादानं न विधेयम् , श्रमणधर्मग्रहणेनैव तयोगृहीतत्वात् , तदप्यसाधु, संयम-तपसोः प्रधानमोक्षाङ्गत्वेन पृथगुपादानात् , कथं मोक्षं प्रति प्रधानाङ्गत्वम् इति चेत् , तब ब्रमः-अपूर्वकर्माश्रवसंबरहेतुः संयमः, पूर्वोपार्जितकर्मक्षयहेतुश्च तपः, ततः प्रधानत्वमनयोः, अतः श्रमणधर्मगृहीतयोरप्यनयो प्रधान- ६६ द्वारे तया भेदेनोपन्यासः कृतः, दृष्टवायं न्यायो यथा ब्राह्मणा आयाता 'वशिष्ठोऽप्यायातः, अत्र हिब्रामणग्रहरणेन वशिष्ठम्यापि ग्रहणं कृतमेव तथापि प्रधानतया तस्य भेदेनोपन्यासः क्रियत इति, यत्रोक्तम्-तपोग्रहः । सप्ततिः णेन वैयावृत्त्यस्यापि ग्रहणाद्भेदेन तदुपादानं न विधेयमिति, तदप्यचारु, वैयावृत्त्यस्य यथा स्वपरोपकार-गाथा कारित्वेन प्राधान्यं न तथाऽनशनादीनां शेषतपोभेदानामिति ख्यापनार्थ तस्य भेदेनोपादानम् , यथाभि ५५१ हितम्-श्रमणधर्मग्रहणेनैव गृहीतत्वात क्रोधादिनिग्रहः पृथग न वक्तव्य इति, तदप्यसाधीयः, यतो द्विविधाः क्रोधादयः-उदीर्णा अनुदीर्णाश्च, तत्रोदीर्णानां क्रोधादीनां निग्रहणं क्रोधादिनिग्रहः अनुदीर्णानां प्र.आ. तु तेषामुदयनिरोधनं क्षान्त्यादय इति ज्ञापनार्थ पृथगुपादानम् , अथवा वस्तु त्रिविधं-ग्राह्य हेयमुपेक्षणीयं च, तत्र क्षान्त्यादयो ग्राह्याः, क्रोधादयो हेयाः, अतो निग्रहीतव्यास्ते इत्येवमर्थमित्थमुपन्यासः, ततः सर्वमनवद्यमिति ॥५५॥ ___ एनां च गार्था स्वयमेव सूत्रकारः प्रत्यवयव व्याख्यानयति पाणिवहेत्यादि-'एकदेशेन समुदायोपचारात्"पाणिवह'त्ति प्राणिवधचिरतिरिति द्रष्टव्यम्, एवं मृषावादादिष्वपि तत्र प्राणिना-स-स्थावरजीवानाम् "अज्ञान १ संशय २ विपर्यय ३ राग ४ द्वेषः ५ स्मृतिभ्रंश ६ योगदुष्प्रणिधान ७ धर्मानादर ८ १ वशिष्टो मु. ॥ २ वशिष्ट मु. ।। ३. नयति एक मुः ॥ ४ तुलना योगशास्त्रटीका १॥२५॥ CHANNEL ANCE
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy