________________
प्रवचन
सारोद्वारे
सटीके
॥३७५।।
worsh
इदानीं 'चतुर्विधं विनयमाह-' 'आये'त्यादि, आचारविनयः श्रुतविनयो विशेषणविनयों दोषपरिघातविनयश्चेति विनयत्रिषये एा चतुर्धा प्रतिपत्तिर्भवति, तत्र आचारो- व्रतिनां समाचारः स एव. विनीयते- अपनीयते कर्मानिनेति 'विनयः आचारविनयः, स चतुर्धा, यथा-संयमसामाचारि, तपः सामाचारि, गणसामाचारी, एकाकिविहारसा माचारि च ।
तत्र संयमं स्वयमाचरति परं च ग्राहयति तत्र च सीदन्तं स्थिरीकरोति तत्रोद्यतं चोप हतीति संयममामाचारी ?, पाक्षिकादिषु तपःकर्म स्वयं करोति परं च कारयति भिक्षाचर्यां स्वयमनुतिष्ठति परं च तस्य नियुङ्क्ते इति तपःसामाचारी २, प्रत्युपेक्षणा - बालवृद्धादिवैयावृत्त्यादिकार्येषु स्वयमुद्यतोऽग्लान्या गणं प्रेरयतीति गणनामाचारी ३, एकाकिविहारप्रतिमांस्वयं प्रतिपद्यते परं च ग्राहयतीति एका विहार सामाचारी ४ ।
"श्रुतविनयोऽपि चतुर्धा, सूत्रवाचनां ददाति १, अर्थ व्याख्यानयति २, हितं वाचयति, हितवाचना च तदैव भवति यदा सूत्रमर्थं तदुभयं च पारिणामिकादिगुणोपेतं शिष्यं परिभाव्य यद्यस्य योग्यं तत्तस्यैव ददाति ३, सूत्रमर्थं वा निःशेषं परिसमासिं यावद्वाचयति नानवस्थिततयाऽपान्तरालेऽपि मुखतीति ४ ।
१ चतुर्द्धा विनय० सं० ॥ २ आधार सुय विणए इत्यादि सं. ॥ ३ विनयः स चतुर्धा जे. ॥
४ तुलना-धर्मरत्न. टीका गाथा १२६ पृ. २६० ॥ ५ तपः समा. मु. ॥ ६ पक्षिका० सं० ॥ ७ तुलना-धर्मरत्नप्रवे. टीका गाथा १२६ पृ.२६१ ॥
६४
सूरिगु
गाथा
५४०
५४८
प्र. आ
॥३७