SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीक ॥३७४॥ वेत्यादिपरिभावनम्, क्षेत्रज्ञानं किमिदं क्षेत्रं मायाबहुलमन्यथा वा, तथा साधुभिर्भावितमभावितं . वेत्यादिविमर्शनम्, वस्तुज्ञानं किमिदं राजामात्यादि सभासदादि वा वस्तु दारुणमदारुणं वा, भद्रकमभद्रकं वेण्यादिनिरूपणम् । तथा सङ्ग्रहः-स्वीकरणं तत्र परिज्ञानं नाम - अभिधानं सङ्ग्रहपरिज्ञा, तत्सम्पच्चतुर्धा, तद्यथा'गणेत्यादि, तत्र गणस्य गजस्य बाल- दुर्बल-ग्लान- बहुयतिजनादिलक्षणस्य निर्वाहयोग्यक्षेत्रग्रहणं गणयोग्य सङ्ग्रहसम्पत् प्रथमा १ तथा भद्रकादिपुरुषं प्रति तदनुरूपदेशनादिकरणेन संसक्तसम्पद् द्वितीया २, ग्रन्थान्तरे तु निषद्यादिमालिन्यपरिहाराय पीठ फलकोपादानात्मिका द्वितीया सम्पदुक्ता, न चैतानि पीठादीनि न गृह्यन्ते समये ग्रहितत्वात् तथा च जीतकल्पे 5 पीठ - फलगाइगहणे न उ मइलिंती निमिज्जाई । वासासु विसेसेणं अन्नकालं तु गम्मएऽन्नत्थ ॥ १ ॥ पाणा सीयल कु थाइयाय तो महण वासासु ।" तथा यथासमयमेव स्वाध्याय-प्रत्युपेक्षणा- भिक्षाटनोपधिसमुत्पादनात्मिका स्वाध्यायसम्पत्तृतीया, तथा गुरुप्रवाजका ऽध्यापक- रत्नाधिकप्रभृतीनामुपधिवहन-विश्रामणाऽभ्युत्थान- दण्डकोपादानादिशिक्षणात्मिका शिक्षोपसङ्ग्रहसम्पच्चतुर्थी, इत्येवं चतुर्विधां संग्रहपरिज्ञासम्पदं जानीयात् । दर्शिता अष्टापि प्रत्येकं चतुर्विधा गणिसम्पदः ||५४५॥ १ तुलना - " सङ्ग्रहः स्त्रीकरणम्, तत्र परिज्ञानमष्टमी सम्पत्, सा चतुर्धा, तथाहि पीठफलकादिविषया, बालादियोग्यक्षेत्रविषया, यथासमयं स्वाध्यायादिविषयाः यथोचितविनयादिविषया चेति ।" इति धर्मशल प्र.दे. टीका गाथा १२६ व २९०B | 5 पीठ फलकादिग्रहणे नेत्र मलिन्यन्ते निश्वादीनि । वर्षासु विशेषेण अन्यकाले तु गम्यतेऽन्यत्र ।। १ ।। प्राणाः शीतलं कुन्ध्वादिकाश्च ततो महणं वर्षासु ॥ २ शिष्योप० सं० ॥ ६४ द्व सूरिगुण गाथा ५४०५४८ प्र. आ. १३० ॥ ३७४॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy