________________
प्रवचन
सारोद्धा सटीके
॥ ३७३ ॥
वाचनां पुनः पुनः प्रयच्छन् परिणतवाचनः तथा 'वाचनायाः' - व्याख्यानस्य 'निर्यापयिता' - निर्वाहकः, शिष्यसमुत्साहनेन झटित्येव ग्रन्थं समर्थयते न पुनरपान्तराले एवमेव मुञ्चतीत्यर्थः, तथा 'निर्वाहणो'fransोsर्थस्येति शेष:, पूर्वा-परसाङ्गत्येन स्वयं ज्ञानतोऽन्येषां च कथनतः सम्यगर्थं निर्गमयतीति भावः, 'ग्रन्थान्तरे त्वेवं दृश्यते - विदित्वोद्देशनम् १, विदित्वा समुद्देशनं- परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः २, परिनिर्वाप्य वाचना- 'पूर्वदत्तालपकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः ३, 'अर्थनिर्यापणा अर्थस्य पूर्वा ऽपरसाङ्गत्येन गमनिकेत्यर्थः ४ ॥
अथ मतिसम्पच्चतुर्धा तद्यथा- 'उग्गहे 'त्यादि, अवग्रहः, ईहा, अवायः, धारणा च, अवग्रहादीनों व स्वरूपं पोडशोत्तरद्विशततमद्वारे वक्ष्यते ॥ ५४४ ॥
तथा प्रयोगः - अत्र वादादिप्रयोजनसिद्धये व्यापारः तत्काले मतिः- वस्तुपरिच्छित्तिः प्रयोगमतिः, तत्सम्पच्चतुर्धा, तद्यथा - 'सप्ति' इत्यादि, शक्ति पुरुषं क्षेत्रं वस्तु व ज्ञात्वा वादं प्रयुञ्जीत, तत्र 'शक्तिज्ञानं वादादिव्यापारकाले किमु वावदुकं वादिनं जेतु ं मम शक्तिरस्ति न वेत्यात्मीयस्वरूप पर्यालोचनम्, "पुरुषज्ञानं किमयं प्रतिवादी पुरुषः सौगतः साङ्ख्यो वैशेषिकोऽन्यो वा, तथा प्रतिभादिमानितरो
"
१ तुलना-धर्म रत्नप्र.दे. टीका गाथा १२६ पृ. २१० B २ पूर्वदत्ताकाका० मु. ॥ ३ 'अर्थ निर्वापणा' इति धर्मरत्नप्र. दे. टीका गाथा १२६ १. २९० B ॥ ४ प्रयोजन सिद्धन सिद्धये सं. 11 शक्तेनं ॥ ६ तुलना-धर्मरत्नप्र. दे. टीका गाथा १२६ पृ. २९० ॥
६४ द्वारे
सूरिगुणा
गाथा
५४०
५४८
प्र.आ.
१३०
||३७३॥