SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ॥३७२॥ लक्षण-प्रमाणसहितायां युक्त इतियावत्, तथा 'अकण्टादि: ' - सम्पूर्णपाण्यादिः, तथा 'बधिरत्वादिवर्जितः - अविकलसकलेन्द्रियः, तथा दृढसंहननत्वेन बाह्याभ्यन्तरभेदभिन्ने तपसि शक्तः समर्थः, 'अन्यत्र तु आरोह- परिणाहयुक्तता १, 'अनवत्राप्यता २, परिपूर्णेन्द्रियता ३, स्थिरसंहननता ४ चेति पठ्यते, तत्रापि स एवार्थः केवलमविद्यमानमवत्राप्यम् - अचत्रपणं लज्जनं यस्य सोऽयमनवत्राप्यो यद्वा अवत्रापयितु' लज्जयितुमर्हः शक्यो वा अत्राप्यो - लज्जनीयो न तथाऽनवत्राप्योऽहीनसर्वाङ्गत्वेनाऽलज्जाकर इत्यर्थः । वचनसम्पचतुर्धा, तद्यथा- 'वाई'त्यादि, वादी मधुरवचन: अनिश्रितवचनः स्फुटवचनश्चेत्येषा 'वचने' वचनविषये सम्पत्, तत्र वदनं वादः स प्रशस्तोतिशायी वा विद्यते यस्य स चादी आदेयवचन इत्यर्थः तथा प्रकृष्टार्थप्रतिपादकमपरुषं सुस्वरता- गम्भीरतादिगुणोपेतमत एव श्रोतृजनमनः प्रीणकं वचनं यस्य स मधुरवचन:, तथा राग-द्वेषादिभिरनिश्रितम् - अकलुषं वचनं यस्य सोऽनिश्रितवचनः स्फुटं - सर्व जनसुबोधं वचनं यस्य स स्फुटवचनः, 'अन्यत्र तु आदेयवचनता १, मधुरवचनता २, अनिश्रितवचनता ३, असन्दिग्धवचनता ४ येति पठ्यते, अर्थः प्राग्वदेव ॥ ५४३॥ अथ वाचनासम्पच्चतुर्धा, तद्यथा - 'जोगो' इत्यादि, तत्र परिणामिकत्वादिगुणोपेतान् शिष्यान् विज्ञाय यस्य यद्योभ्यं सूत्रं तत्तस्यैवोदिशन् समुद्दिशन् वा योग्यवाचनः, अपरिणामिकादावपक्कपटनिहितजलोदाहरणतो दोपसम्भवात् तथा पूर्वप्रदत्तमूत्रालापकान् शिष्यस्य सम्यक्परिणमय्य ततोऽपरा - ऽपरालापकानां १ तुलना-धर्मरत्नप्र दे-टीका गाथा १२६ पृ. २४० ॥ २ "अनवत्रता अलञ्जनीयाङ्गवा" । इदि धर्मरत्नप्र. दे. टीका गाथा १२६ २६० ॥ ३ तुलना-धर्मरत्नप्र. दे. टीका गाथा १२६ पृ. २६० ॥ ६४ द्र सूरिगुण गाथा ५४० ५४८ प्र.आ. १२९ ॥३७२॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy