________________
प्रवचन- सारोद्धारे सटीके
॥३४५।।
स्थविरकल्पिको पकरणानि गाथा
इदानी कल्पानां प्रयोजनमाह-'तणगहणे'त्यादि, तृणाना-व्रीहि-पलालादीनां ग्रहणं तृणग्रहणम् , अनल:-अग्निस्तस्य सेवा, तयोर्निवारणार्थ कल्पग्रहणम् , असति कल्पे शीतादौ सति गाढे पलाला-ऽग्निसेवामवश्यं करोति तत्करणे च जीववधः, तथा धर्म-शुक्लध्याननिमित्तं दृष्टम्-अनुज्ञातं कल्पग्रहणं तीर्थकृद्भिः, शीताधुपद्रवे हि कल्पनावृत्तः सुखेन धर्म-शुक्लध्याने 'अध्यामे करोतीति, अन्यथा शीतादो कम्पमानकायो दन्तवीणामनवरतं वादयन् कथङ्कारं ते ध्याने विधास्यतीति?, तथा ग्लानसंरक्षणार्थ दृष्टं कल्पग्रहणम् , अन्यथा शीतवातादिना याध्यमानो ग्लानो गाढतरं ग्लानो भवति, तथा मरणार्थ कल्पग्रहणम् , मृतस्य हयुपरि प्रच्छादनार्थ कल्पः क्रियते. इतरथा लोकव्यवहारादिक्षाधा सा भवति ।। ५२७ ॥ .
इदानी चोलपट्टस्य प्रयोजनमाह-वेउव्वे' त्यादि, यस्य साधोः प्रजननं साधनं वैक्रिय-विकृतं भवति, यथा दाक्षिणात्यपुरुषाणामग्रभागे विध्यते प्रजननम् , तच्च तथाविधं दृष्टं विकृतं भवति ततस्तत्प्रच्छादनार्थे चोलपट्टकोऽनुजज्ञे, 'अवाउडे ति पदं सर्वत्र सम्बध्यते, ततोऽप्रावृते-अपरिहिते चोल पट्टके एते दोषा भवन्ति, यथा-कश्चित्साधुरप्रावृतसाधनो भवति, अग्रभागे चर्मणा अनाच्छादितलिङ्गो दुश्चर्मा इत्यर्थः, ततस्तदनुग्रहार्थं चोलपट्टोऽनुज्ञातः, तथा कश्चित् साधुर्वातिको भवति-वातेन च तदीयसाधनमुच्छूनं भवति, ततस्तदनुग्रहाय चोलपट्टोऽनुमतः, तथा प्रकृत्यैव कश्चित् हीमान्-लज्जालुर्भवति ततस्तत्प्रावरणाय चोलपट्टः, तथा स्वभावेनैव कश्चित् 'वद्धपजणण' ति बृहत्साधनो भवति लोकश्य तथाविधं तं दृष्ट्वा हसति, ततस्तथाविधानुग्रहाय चोलपट्टः, तथा लिङ्गोदयार्थ चोलपट्टा कदाचिन्मनोहर१ अध्मामे-सं. ॥ २ तुलना-बृहत्कल्पटीका पृ. ७३०, ५ २० कः ॥
प्र.आ.
.. .......