SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ " प्रवचनसारोद्धारे सटीके जिनकल्पिक पकरणा गाथा ||३२८॥ ४९८ तानेवव्याचष्टे-'पुत्तीरयहरणेहिं'इत्यादिगाथाद्वयम् , मुखपोतिका-रजोहरणाभ्यां द्विविधः, कोऽर्थः ?मुखपोतिका रजोहरणलक्षणमुपकरणद्वयमेव पाणिपात्राः प्रावरणवर्जिता जिनकल्पिका धारयन्ति, तथा तेषामेव सप्रावरणानामेकेन कल्पेन युक्तः सन् पूर्वोक्त उपधिस्त्रिविधो भवनि, तथा स एव मुखवस्त्रिका-रजोहरणरूप उपधिः कल्पद्वयेन सहितश्चतुर्विधः, कल्पत्रयेण संयुक्तः पुनः पश्चविधो भवति, तथा पूर्वोक्त एव द्विविधस्त्रिविधश्चतुर्विधः पञ्चविधश्च उपधिः सप्तविधयात्रनियोगसहितः सन् यथाक्रमं नवविधो दविध एकादशविधो द्वादशविधश्चजायते, तत्र रजोहरण-मुखपोतिका सप्तविधपात्रनियोगसहितो नवविध उपधिः पात्रभोजिनामप्रावरणानां ज्ञेयः, शेषस्तु दशविध एकादशविधो द्वादविधश्च सप्रावरणानां पात्रभोजिनामिति ॥४९५-४९६|| ___अथ सूत्रकृदेवाप्रावरणानामुपकरणसङ्ख्यामाह- "अहवे' त्यादि, पूर्व सामान्यतो जिनकल्पिकोपधेरष्टौ भेदाः प्रतिपादिताः, अथवा द्विकं नवक चेति द्वावेव मेदौ, तत्र द्विकं रजोहरणमुखपोतिकारूपं नवकं तु रजोहरणमुखपोतिकासप्तविधपात्रनिर्योगलक्षणम् , इह च ये प्रावरणवर्जितास्ते स्वल्पोपधित्वेन विशुद्धजिनकम्पिका भण्यन्ते, तेषामेवेदं द्विकनवकलक्षणं भेदद्वयम् , अविशुद्धजिनकल्पिकानां तु पूर्वोक्ता एव भेदा इति ।।४९७॥ जिनकल्पप्रतिपत्तिश्च परिकर्मणापूर्विकैच भवत्ति अतः पूर्व परिकर्मणाप्रतिपादनार्थमाह-'तवेणे त्यादि, तोल्यते-परीक्ष्यते आत्मा यया सा तुलना-परिकर्मणा आत्मनो जिनकल्पाङ्गीकरणं प्रति परीक्षण- १ 'अहवा' माहा पूर्व-सं. ॥ प्र. आ. ॥३२८॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy