________________
प्रवचनसारोद्धारे
सटीके
॥३२७॥
पारवहनकानि:, कृतान्न सूत्रे एकपचननिर्देशः गोच्छकः-कम्बलखण्डमयो यः पात्रकोपरि दीयते ७, अयं सप्तविधः पात्रनिर्योगः, पात्रपरिकर इत्यर्थः ।।४६शा
तथा त्रय एव प्रच्छादका:-प्रावरणरूपाः कल्पा इत्यर्थः, द्वौ सूत्रमयावेक ऊर्णामयो ३, रजोहरणं ४ चैव भवति मुखपोतिका ५, एष उत्कर्षतो द्वादशविध 'उपधिर्जिनकल्पिकाना भवति ।।४६२॥
ननु जिनकल्पिका एकस्वरूपा एव भवन्त्याहोश्चित्पृथक्स्वरूपा अपीत्याह-'जिणकप्पिका' इत्यादि, जिनाना कल्पः आचारो जिनकल्पः स विद्यते येषां ते 'अत इनिठना विति (पा०५-२-११५) ठनि > जिनकल्पिकाः, अपिः पुनरर्थो, जिनकल्पिकाः पुनर्द्विविधा-द्विभेदाः, तावेव भेदावाह-पाणी एव पात्रं येषां ते पाणिपात्रा:-पाणिपात्रभोजिन एके, पतद्ग्रहधराः-पतद्ग्रहभोजिनो द्वितीयाः, ते पुनरेकैके द्विमेदा भवेयुः-सप्रावरणा अप्रावरणाच, अत्र च सूत्रे प्राकृतत्वात्सलोपो द्रष्टव्यः ।।४९३।।
ननु जिनकल्पिकानां द्वादशविध उपधिरभिदधे स किं सर्वेषामेकविध एव भवति ?, नेत्याह'दुगतीगे'त्यादि, द्विक त्रिकं चतुष्कं पञ्चकं नवकं दशकं एकादशकं द्वादशकमित्येतेऽष्टौ विकल्पा जिनकल्पे भवन्त्युपधेरिति ।।४६४॥
६० द्वारे जिनकल्पिकोपकरणानि गाथा ४९१. ४९८ प्र. आ.
११८
१ "एकमाणे तुज्जातीयानां सर्वेषां ग्रहणम्" ति न्यायात मन्येऽपि ये गच्छनिर्गतास्तेषां यथायोगमिदमेवोपकरण
मवसातव्यम्। इति ब. क. टी. (पृ.१०८७)॥AD चिह्नद्वयमध्यवर्ती पाठः सं. नास्ति ।। २ तृक-जे.
॥३२७
HINirls