________________
प्रवचनसारोद्धारे सटीके
| ५६ द्वारे उत्कृष्टावगाहना गाथा ४८७ प्र. आ.
॥३२२॥
विधातोऽप्रतिघातत्वात्' , सप्रतिघाताना हि सम्बन्धे सति विघातो नान्येषाम् इति, तथा 'लोकस्य' पञ्चास्तिकायात्मकस्याग्रे-मूर्धनि 'प्रतिष्ठिताः' अपुनरागत्या व्यवस्थिताः, तथा 'इह' मनुष्यक्षेत्रे 'योन्दि' तर्नु त्यक्त्वा तत्र' लोकाग्रे समयान्तरप्रदेशान्तरास्पर्शनेन गत्वा 'सिद्ध यन्ति' निष्ठितार्था भवन्ति, अत्रानुस्वारलोपो द्रष्टव्यः, अथवा एकवचनतोऽप्येवमुपन्यासः सूत्रशैल्या अविरुद्ध एव, तथा चान्यत्रापि दृश्यते
वत्थगंधमलंकारं, इथिओ सयणाणि य । अच्छंदा जे न भुजंति, न से चाइत्ति वुच्चइ ॥१॥" दिश. २।२] ॥४८६॥५५॥
सम्प्रति 'अवगाहणा य तेसिं उक्कोस'त्ति षट्पञ्चाशत्तमं द्वारमाहतिपिण सया तेतीसा घणुत्तिभागो य होइ घोडवो ।
एसा खलु सिद्धाणं उक्कोसोगाइणा भणिया ॥४८७॥ [आव.नि. ९७१] 'तिन्निसया' इत्यादि, धनुषा त्रीणि शतानि त्रयस्त्रिंशदधिकानि धनुषस्तृतीयभागश्च भवति वोद्धव्यः, एपा खलु सिद्धानामुत्कृष्टाऽवगाहना भणिता। इयमत्र भावना-सिद्धगमनयोग्योत्कृष्टावगाहनायाः पश्चधनुःशतरूपायास्तृतीयो भागः षट्पष्टयधिकं धनुःशतं चतुःषष्टिचाङ्गुलानि, स च सिद्धिगमनकाले वदनोदरादिविवरपूरणेन सङ्कोचित इति धनुःशतपत्रकात्पात्यते, ततः शेषमुत्कृष्टा सिद्धावगाहनेति, यत्पुनः
१ त्यात सप्रतिघातत्वात् सप्रति. सं. ॥