________________
प्रवचनसारोद्धारे सटीके
५५ द्वारे | सिद्धस्था
नम्
॥३२॥
'ईसी'त्यादि गाथाद्वयम् , इह सर्वार्थसिद्धविमानावं द्वादशभिर्योजनैः पञ्चचत्वारिंशद्योजन लाविष्कम्भा वृत्तत्वादायामतोऽप्येतावन्माना बहुमध्यदेशभागे च आयाम-विष्कम्भाभ्यामष्टयोजनप्रमाणे क्षेत्रेऽष्टयोजनबाहल्या तदनन्तरं सर्वासु 'दिक्षु च विदिक्षु च प्रदेशहान्या परिहीयमाना परिहीयमाना सर्वेषु चरमान्तेषु मक्षिकापत्रादपि प्रतनुतरत्वादनुलासङ्खयेयभागमात्रबाहल्या सर्वश्वेतसुवर्णमयी स्फटिकनिर्मला उत्तानच्छत्रसंस्थिता घृतभृततथाविधकरोटिकाकारा च ईषत्प्राग्भारा नाम सिद्धशिला भवति, स्थापना चेयम
सर्वार्थाद् द्वादभिर्योजनैलॊकान्त इत्यन्ये, तस्याश्चेषत्प्रारभाराया उपरि योजने गते लोकान्तो भवति, तस्य च योजनस्य य उपरित नकोश:-चतुर्थ गव्य॒तम् , तस्य च क्रोशस्य सर्वोपरितने षष्ठे भागे-त्रयस्त्रिंशदधिकानि त्रीणि धनुःशतानि धनुस्त्रिभागश्चेत्येवंरूपे सिद्धानामवगाहना-अवस्थितिर्भणिता, एतावत्या एवोस्कर्षतः सिद्धवावगाहनाया भावात . यदुक्तम् ---
तिभि सया तेतीसा धणुत्तिभागो य कोस छम्भाओ। जं परमोगाहोऽयं तो ते कोसस्स 'छब्भागे ॥१॥ [आच नि.९६६] ॥४८५॥ . तथा "अलोए' इह सप्तमी तृतीयार्थे अलोकेन-केवलाकाशास्तिकायरूपेण 'प्रतिहताः' स्खलिताः सिद्धाः, इह च तत्र धर्मास्तिकायाद्यभावात्तदानन्तर्यवृत्तिरेव प्रतिस्खलनम्, न तु सम्बन्धे सति
गाथा ४८५
४८६
प्र.आ.११६
१दिक्ष वि-मु.॥२ छन्भागो-इति श्रीचन्द्रमहर्षिप्रणीते समहणीसूत्रे (गाथा २५३) छम्माए-आ.नि.॥ ३ भलो के इति श्लोकः सप्तमी०-सं॥४ तुलना-भावश्यक.हा-टी.पू. (४४२B), आवश्यक.मलय. टी. ५४२BM