________________
प्रवचन
सारोद्वारे | सटीके
॥३१८॥
तंत्र में पुं वेदम्य उद्धृत्य पुरुषा भूत्वा सिद्धयन्ति तेषामेवैकस्मिन् समयेऽष्टोत्तरं शतं सिद्धयति, शेषेषु पुनरसुभङ्गकेषु प्रत्येकं दश दशैव, इदमुक्तं भवति - देवेभ्य आगताः पुरुषा भूत्वा एकसमयेनाष्टोत्तरं शतं सन्ति, स्त्रियो नपुसकाव भूत्वा प्रत्येकं दशैव, देवीभ्यश्रागताः पुरुषा अपि भूत्वा दशैव, एवं स्त्रियो नपुंसका, यत्तु वैमानिकदेवीभ्यो ज्योतिष्कदेवीभ्यो मानुषीभ्यश्रागता विंशतिः सिद्धयन्तीत्युक्तं तत्र g - स्त्री नपुंसकात् द्विसंयोगतस्त्रिक संयोगतो वा मिलिताः सन्तो विंशतिः सिद्ध्यन्ति न पुनः केवलाः पुरुषाः स्त्रियो नपुंसका वा यदपि विंशतिः स्त्रिय एकसमयेन सिद्ध्यन्तीत्युक्तं तत्रापि काश्रित्पुरुषेभ्यः काचित् स्त्रीभ्यः काचिनपुंसकेभ्य आगताः सत्यो मिलिताः विंशतिः सिद्ध्यन्ति, न पुनः केवलेभ्यः पुरुषेभ्यः केवलाभ्यः स्त्रीभ्यः केवलेभ्यश्च नपुंसकेभ्यः एवमनया दिशा सर्वेऽपि भङ्गा भावनीयाः, तदुक्तं सिद्धप्राभृतसूत्रे -
- "सेसा उ अड्ड भंगा दसगं दसगं तु होइ 'इक्केको ||" [ गाथा ५० ] इति,
"
अपरात्र विशेषो दृश्यते, यथा नन्दनवने चत्वार एकसमये सिद्धयन्ति, 'नंदनवणे चत्तारि' [ तुलना- सिद्धप्रा. गाथा ४५ टीका ] इति सिद्धप्राभृतटीकावचनात् एकतरस्मिन् विजये विंशतिः, 'वीसा एगरे विजये' [सिद्धप्रा. गाथा ४३ टीका ] इति वचनात् संहरणतः पुनः कर्मभूम्यकर्मभूमि- कूटशैलादिषु सर्वेष्वपि स्थानेष्वेकसमये नोत्कर्षतो दश दश, पण्डकवने तु संहरणतो द्वौ, पञ्चदशस्वपि कर्मभूमिषु प्रत्येकं जन्मतोऽष्टोत्तरं शतम्, यदुक्तं विप्राभृतसूत्रे
१ इक्कं इति सिद्ध प्राभृत सूत्रे पाठः ॥ २ दयेते. मु. ॥
५३ द्वारे
स्त्री
वेदादिसिद्धा
गाथा
४७९
४८१
प्र.आ.
११५
॥३१८॥