________________
प्रवचन
सारोद्वारे
सटीके
॥३१७॥
प्रभाया उद्धृताः सन्तः प्रत्येकं चत्वारवत्वारः, तथा 'रयणाइसु'त्ति सप्तम्याः पञ्चम्यर्थत्वेन रत्नादिभ्योदश, धूमप्रभारत्नप्रभा-शर्कराप्रभा वालुकाप्रभाभ्यस्तिसृभ्यः पृथिवीभ्यः उद्धृताः प्रत्येकं दश दिभ्यस्तु तिसृभ्यः पृथिवीभ्य आगता न सिद्ध्यन्ति तथास्वाभाव्यात् तथा 'तरुण' ति पष्ठी पञ्चम्यर्थे, ततस्तरुभ्यो वनस्पतिकायिकेभ्य उद्धृत्य अनन्तरं मनुध्यभवमागता उत्कर्षत एकस्मिन् समये षडेव सिद्धयन्ति, तेजो-वायूनां पुनरनन्तरभवेन मनुष्यत्वस्यैवाप्राप्तेः द्वित्रिचतुरिन्द्रियाणां तु तथाभवस्वाभाग्यादेवानन्तरभवेन सिद्ध्यभाव इति, तथा चोक्तं प्रज्ञापनायाम्
"अनंतरागया णं भंते ? नेरड्या एगसमएणं केवइया अंततिरियं पकरिंति ?, गोयमा ! जहन्ने एगो वा दोवा तिमि वा उक्कोसेणं दस, स्यणप्पभापुढविनेरइयावि एवं चैव जाव वालुयपभावनेर, कप्पभापुढवीनेरइया उक्कोसेणं चत्तारि, असुरकुमारा दस, असुरकुमारीओ पञ्च, एवं जहा असुरकुमारा सदेवीया तहा जाव थणियकुमारा, पुढवीकाइया चत्तारि, एवं आउकाइयावि, वणस्सइकाइया छ, पंचिदियतिरिक्खजोणिया दस, पंचिदियतिरिक्खजोणिणीओवि दस, मणुस्सा दस, मस्सीओ वीसं, वाणमंतरा दस, वाणमंतरीओ पञ्च, जोसिया दस, जोइसिणीओ बीसं, वेमाणिया अट्टमयं वैमाणिणीओ " [तुलना - प्रज्ञापना पद २० . ३] इति, सिडमाभृते च देवगतेरन्यत्र गतित्रयेऽपि दशेत्युक्तम् ।
'सेसाण गईण दस दसर्ग' [गाथा ४८] ति वचनात् तवं तु श्रुतविदो विदन्ति, इह च पुवेदेभ्यो देवादिभ्योऽनन्तरोद्धृता जीवाः केचित्पुरुषाः जायन्ते, केचित् खियः केचिन्न सकाः, एवं स्त्रीवेदेभ्योऽपि सर्वसंख्या भङ्गा नव देवीप्रभृतिभ्य उद्धृतानां भङ्गत्रयम् एवं नपुंसकेभ्योऽपि नारकादिभ्यो भङ्गत्रयम्,
५३ द्वारे स्त्री
वेदादि
सिद्धाः
गाथा
४७९४८१
प्र. आ.
११५
॥३१७॥