SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ॥३०७॥ ध्ववतिमानेषु श्रीवर्धमानस्वामी निवृतः, ततो महावीरनिर्वाणानन्तरम् एकोननवतिपक्षाधिक प्रत्येकमेकविंशतिवर्षमत्रप्रमिते अवसर्पिणीसम्बन्धिपर्यन्तारकद्वये गते तथोत्सर्पिण्या अध्यतिदुष्पमादुपमारूपे प्रत्येक विशतसहस्रमाने एवाधारकद्वये गते तृतीयारकस्य च दुष्पमसुषमारूपस्यैकोननवतिपक्षेषु गतेषु श्रीपद्मनाभः समुत्पन्नः ततः प्रागुक्तारकचतुष्टयसम्बन्धि सर्वप्रमाणमीलने चतुरशीतिर्वर्षसहस्रा जायन्ते, ये च पक्षाणां द्वे एकोननवत समधिके अवतिष्ठेते ते अल्पत्वान्नं विवक्षिते इति । अथ तानेव क्रमेणाह - प्रथमं पद्मनाभं जिनेश्वरं श्रीमन्महावीरपरमश्रावक श्रेणिक महाराजजीवं नयाणा, द्वितीयं च सुरदेवं बन्दे जी सुपाइर्वस्य श्रीमहावीरपितृव्यस्य तृतीयं सुपार्श्वनामानं कोणिकपुत्रदार्थमहाराजजीयं प्रभवामहं वन्दे स्वयंप्रभजिनं 'पोहिलजीवं चतुर्थमहम्, सर्वानुभूतिनामानं दृढायुषो जीवं पञ्चमं वन्दे तथा पष्ठं देवश्रुतजिनं वन्दे जीव कीर्तेः सप्तमम् उदयजिनं वन्दे जीवं च शङ्खनाम्नः श्रावकस्य, पेढालमष्टमकम् आनन्दजीवं नमस्यामि, पोट्टिलजिनं च नवमं सुरकृतसेवं सुनन्दजीवस्य सम्बन्धिनम् शतकीर्तिजिनं दशमं वन्दे शतकस्य जीवम्, एकादशमं मुनिसुव्रतं वन्दे देवक्या जी, द्वादशमममजिनं सत्यकिजीवं जगत्प्रदीपम्, निष्कषायं त्रयोदशं वन्दे जीवं च वासुदेवस्य बलदेवस्य जीवं चतुर्दशं निष्पुलाकजिनम्, सुलसाया जीवं वन्दे पश्चदर्श निर्ममत्वनामानं जिनम्, रोहिणीजीवनमामः पोडशं चित्रगुप्तमिति, सप्तदशं च वन्दे रेवत्या जीयं समाधिनामानं जिनम्, संवरमष्टादशं सतालिजीयं प्रणिपतामि नमामि द्वीपायनस्य जीवं यशोधरनामानं जिनमेकोनविंशं वन्दे, + १ पहिलजी मु. ॥ ४६ द्वा भाषि जिनजी गाथा ४५७ ४७० प्र.आ. १११ ॥३०७
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy