SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे ४. द्वारे अतिशयाः चतुस्त्रि सटीके शत ||२६७॥ गाथा पाण्डुरम् अविश्रं च मांस-रुधिरम् २, तथा आहार:-अभ्यवहरणम् , नीहारो-मूत्र-पुरीपोत्सर्गस्तौ क्रियमाणी न दृश्येते इत्यदृश्यो मासचक्षुषा, न पुनरवध्यादिलोचनेन पुंसा ३, तथा विकचोत्पलवत्सुरमयः श्वासाउच्छ्वास-निःश्वासाः ४. इत्येते चत्वारोऽप्यतिशया जिनानां जन्मतोऽपि जाताः । इदानीमेकादशातिशयाः 'कर्मक्षयभवाः कर्मणां-ज्ञानाऽऽवरणादीनां चतुर्णा घातिकर्मणां क्षयाज्जाताः कथ्यन्त इति शेषः, तत्र योजनमात्रे' योजनप्रमाणेऽपि 'क्षेत्रे' समवसरणभुवि 'त्रिजगज्जनः' सुर-नर तिर्यग्जनः 'प्रभूतोऽपि' कोटीकोटीप्रमाणोऽपि 'माति' परस्परासम्बाधया सुखेनावतिष्ठते ५, तथा वाणी अर्धमागधीमा मनागिधीयमामा नर-तिर्यक्-सुराणां प्रत्येक 'निजनिजभाषया' स्वस्वभाषया कृत्वा धर्मावबोधका धर्मावबोधदा वा भवति । अयमर्थः-योजनव्यापिनी एकस्वरूपाऽपि भगवतो भारती वारिदविमुक्तवारिवत्तत्तदाश्रयानुरूपतया परिणमति, यत उक्तम् "देवा देवी नरा नारी शबराश्चपि शावरीम् । तिर्यश्चोऽपि हि तैरवीं मेनिरे भगवद्गिरम् ॥१॥" ना विधभुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्वोपकारः शक्यते कर्तु मिति ६, तथा पूर्वोत्पना रोगाः ज्वरा-ऽरोचकादय उपशाम्यन्ति, अपूर्वाश्व नोत्पद्यन्ते ७, तथा न च-नैव भवन्ति पूर्वभवनिषद्धानि जातिप्रत्ययानि च वैराणि-परस्परविरोधाः ८, तथा दुर्भिक्ष-दुष्कालः ६, तथा डमरः--स्वचक्र-परचक्रकृतो विप्लवः १०, तथा दुष्टदेवतादिकृतं सर्वगतं मरणं दुर्मारि:११, तथा ईतयः प्रचुरश्चलभ-शुक-मूषकाधा धान्यादिविनाशिकाः १२, तथाऽतिवृष्टिः-अतिजलपात: १३, तथाऽनापष्टि:-सर्वथा जलपाताऽभावः १४, एते प ४५० प्र.आ. १०८ ॥२७॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy