________________
"
mAnancienwidelihstincti
niandanies
प्रवचनसारोद्धारे सटीके
प्राति
हार्याष्टय
'ककिल्ली'त्यादिगाथा, तत्र प्रतिहारा इत्र प्रतिहारा:-सुरपतिनियुक्ता देवास्तेषां कर्माणि-कृत्यानि प्रातिहायर्याणि, 'वर्णदृढादिभ्यः ष्यञ्च [पा-५-१.१२३] इति कर्मणि व्यञ् , तान्यष्टी, तद्यथा-उल्लसदहलपाटलपल्लवजालमर्वकालविकसदसमान कुसुमसमूहविनिःसग्दविरलपरमपरिमलोद्गारभरसमाकृष्यमाणभ्रमभ्रम रनिकुरम्बरणरणारावशिशिारकृतप्रण मद्भव्यजनानकरश्रवणविवरोऽतिमनोरमाऽऽकारशालिविशालशालः कङ्: केलिः अशोकतर्जिनम्योपरि देवविधीयते १, तथा जलज-स्थलज-विकुर्वणाविरचिताना पञ्चवर्णानां विकस्वराणामधःकृतवृन्तानामुपरिमुखाणां कुसुमानां पुरुषजानुद्वयसंवृष्टिः क्रि (ग्रन्थाग्रं ४०००) यते २, तथा 'सरसतरसुधारसमहोदरः सरभसविविधदेशापहृतमुक्ताऽपरव्यापारप्रसारितवदनैः कुरङ्गकुलैराकुलाकुलैरुत्कणेराकर्ण्यमानः सकलजनानन्दप्रमोददायी दिव्यो ध्वनिर्वितन्यते ३, तथा कमनीयकदलीकाण्डप्रकाण्ड. तन्तुमण्डली रुचिरचमरीचिकुरनिकुरम्बडम्बरीताऽतिजात्यविचित्र पवित्रनिःसपत्न'रत्नविसरविनिः सरकि"रणनिकुरम्बजालेन दिशि दिशि संसूत्र्यमाणेन्द्र चापकान्तकाञ्चनमयोदण्डरमणीया चारुचामर श्रीविस्तार्यते ४, तथा अतिभास्वर सटापाटलबन्धुरस्कन्धवन्धविकटप्रकटदंष्ट्राकरालसजीवायमानसिंहरूपाऽलङ्कृतमनेकप्रकाण्डरत्नखण्डविनिर्यद्वर्य किरणालिविलुप्यमानविलसत्तमस्काण्डडम्बर सिंहासनं चारुतरं
गाथा
प्र.आ.
१ घण्वतिकर्मणि घण-जे । व्यड़वेति कर्मणि व्यह-सं. 1 तुलना-वर्णदृढादिभ्यष्टयण च वा' (सि.हे.-१-५९) २ककेल्लितरुः अशोक मु.॥३ सरससुधा. सं.॥४न्तनुमंडली०सं. १५ रुचिरमरीचिचिकुर० मु.॥ ६ रत्नविशतर विनि: सं.।। ७रणाकुरलजालेन सं. ॥ श्रीर्वितायते-सं.॥ ९०सटपासं.।। १००किरणावली...॥