SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ सारोबारे सटीके ॥२७९॥ तमगहे सुभमचक्रवर्तिनोऽष्टाविंशतिर्धन षि, त्रयोविंशतितमगृहके दत्तस्य वासुदेवस्य पविशतिर्धन पि. चतुर्विशे गहे मल्लिजिनस्य पञ्चविंशतिर्धनू षि, पञ्चविंशतितमे गृहके सुव्रतजिन-महापद्मचक्रवर्तिनोवि. शतिर्धन षि, पड्विंशतितमे गृहके नारायणवासुदेवस्य पोडश धनूषि, सप्तविंशतितमे गृहे नमिनाथ-हरिषेणचक्रिणोः पञ्चदश धनूषि, अष्टाविंशतितमे गृहे जयचक्रवर्तिनो द्वादश धनूषि, एकोनत्रिंशत्तमे गृहे नेमिजिन-कृष्णाभिधानवासुदेवयोर्दश धनू पि उच्चत्वम् ; त्रिंशत्तमे गृहे ब्रह्मदत्तचक्रिणः सप्त धन पि, एकत्रिंशे गृहके पार्श्वजिनस्य नव रत्नया-हस्ताः, द्वात्रिंशत्तमगृहके श्रीवीरजिनस्य सप्त हस्तास्तनुमानम् ।। एवमुरुचत्वं चतुर्थपङ्क्तौ सर्वेषां प्रथमजिनादीनां भणितम् , इदानीं पञ्चमपक्तिगहकनिविष्टं सर्वेषां जिनादीनां क्रमेणायुष्कं वक्ष्यामि, तदेवाह-'उसह-भरहाणं' इत्यादि, वृषभजिनभरतचक्रिणोद्धयोरपि प्रथमगृहके चतुरशीतिः पूर्वाणा शतसहस्राणि-लक्षाणि आयुः, द्वितीयगहके अजितजिन--सगरचक्रिणोयोरपि द्विसप्ततिः पूर्वलझाणि, इतः पुरतो यथाक्रमं सम्भवादिजिनाना परिपाटथा षष्टिः, पञ्चाशच्चत्वारिंशत् , त्रिंशत् , विंशतिर्दश, द्वे, एकं लक्षं पूर्वाणामिति, अयमर्थःतृतीये गृहके सम्भवस्य षष्टिः पूर्वलक्षाः सर्वायुः, चतुर्थगृहके अभिनन्दनस्य पश्चाशत्पूर्वलक्षाः, पञ्चमगहे सुमतिजिनस्य चत्वारिंशत्पूर्वलक्षाः, पष्ठगृहे पद्मप्रभस्य त्रिंशत्पूर्वलक्षाः, सप्तमगृहे सुपार्श्वस्य विंशतिः पूर्वलक्षाः, अष्टमगृहे चन्द्रप्रभस्य दश पूर्वलक्षाः, नवमगृहे सुविधे. पूर्वलक्षे, दशमगृहे शीतलस्य एक लझमिति, तथा एकादशे गृहे श्रेयांसजिन-त्रिपृष्ठधासुदेवयोश्चतुरशीतिवर्षलक्षाः, पुरतः-अनन्तरं जिन-फेशीना-तीर्थकद्वासुदेवानां यावद्धर्म-पुरुषसिंहौ तावत्परस्परं तुल्यमिदमायुः, तदेव दर्शयति-'कमसो' |३५ द्वारे त्रिषष्टि शलाकान्तरादि गाथा ४०६. ४२६ प्र.आ. ॥२७॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy