________________
प्रवचनसारोदारे
सटीके
॥२७८॥
इदानीं चतुर्थ पङ्क्तिस्थापना - तत्र प्रथमगृह के ग्रुपभजिन- भरत चक्रिणोर्द्वयोरप्युच्चत्वं कायस्य प धनुःशतानि द्वितीयगृहके अजितजिन सगरचक्रिणोर्द्वयोरप्युच्चत्वं चत्वारि धनुः शतानि सार्धानि, ततः परं 'सम्भवादीनां जिनानां पञ्चाशत्पञ्चाशद्वनुः परिहाणिस्तावद्यावत्पुष्पदन्तः - सुविधिजिनो धनुःशतमेकं भवेदुच्चः, अयमर्थ:- तृतीयगृहकै सम्भवजिनस्य चत्वारि धनुःशतानि देहमानम्, चतुर्थगृह अभिनन्दनस्य त्रीणि धनुः शतानि सार्धानि पञ्चमगृह के सुमतिजिनम्य त्रीणि धनुः शतानि षष्ठगृहे पद्मप्रभस्य द्वे धनुःशते सार्धं, सप्तमगृहे सुपार्श्वस्य द्वे धनुः शते, अष्टमगृहे चन्द्रप्रभस्य धनुःशतं सार्धम्, नवमगृह धनुःशतमेकं सुविधेरिति, ततो दशमगृहके शीतलस्य नवतिर्धनूंषि, पुरतः - अनन्तरं श्रेयस - त्रिपृष्ठादीनां यावद्धर्मजिन पुरुषसिंहौ तावत्तेषामुच्चत्वमिदं धनुरशीत्यादिकं क्रमशो भवति, अयमर्थ:एकादशे गृहके श्रेयांसजिन त्रिपृष्टवासुदेवयोरशीतिर्धन् पि, ततो द्वादशके गृहके वासुपूज्यजिन-द्विपृष्ठवासुदेवयोः सप्ततिर्धनू ंषि, ततस्त्रयोदशगृहे विमलजिन - स्वयम्भूवासुदेवयोः षष्टिर्धनूंषि ततश्चतुर्दशगृहके अनन्तजिन पुरुषोतमवासुदेवयोः पञ्चाशद्वनूंषि ततः पञ्चदशगृहके धर्मजिन- पुरुषसिंह वासुदेवयोः पञ्चचत्वारिंशद्धन पीति, तथा पोडशकगृहे मघवतश्चक्रवर्तिनो द्विचत्वारिंशद्धनूंषि तदर्घ च हस्तद्वयमित्यर्थः, सप्तदशगृहके एकचत्वारिंशदन् पि तदर्थं च सनत्कुमारचक्रवर्तिनः, अष्टादशे गृहे शान्तिजिनस्य परिपूर्णानि चत्वारिशद्धन् षि, एकोनविंशे गृह के कुन्थुजिनेन्द्रस्य पञ्चत्रिंशद्धनूंषि, विंशतितमे गृहके त्रिंशद्वन् षि अरजिनस्य तत एकविंशतितमे गृहके पुरुषपुण्डरीकस्य वासुदेवस्य एकोनत्रिंशद्धनूंषि, द्वाविंशति१ शंभवादीनां सं. ॥
३५ द्वारे त्रिषष्टि
शलाका
न्तरादि
गाथा
४०६
४२६
प्र.आ.
१०२
॥२७८॥