SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटोके ३५ द्वारे त्रिषष्टिशलाकान्तरादि गाथा ॥२७७॥ गृहके नमिजिनः स्थाप्यः, ततः परस्मिन् गृहके शून्यम् , ततः परस्मिन् गृहके नेमिजिनः, ततः परस्मिन् शून्यम् , ततः पर्सम्मन गृहकद्धये क्रमेण पार्श्वजिनो वीरजिनश्चेति प्रथमपङ्क्तिस्थापना ॥४०६-४०७॥ अथ द्वितीयपङ्क्तिस्थापना दयते-तत्र च प्रथमगृहकद्वये क्रमेण भरतः सगरश्चक्रवर्ती स्थाप्येते, ततस्त्रयोदशगृह केषु क्रमेण शून्यानि त्रयोदश, ततः क्रमेण पञ्चसु गृहकेषु पञ्च चक्रवर्तिनो मघवत्सनत्कुमार-शान्ति कुन्थु अरनामानः स्थाप्याः, ततः शून्यम्, तदनेतनगृहे सुभूमश्चक्रवर्ती, ततो गृहकद्वये क्रमेण द्वे शन्ये, तदग्रेतनगृहे महापद्मश्चक्रवर्ती, तदधेतनगृहे शून्यम् , तदग्रेतनगृहकद्रये क्रमेण हरिषेण-'जयनामानी चक्रवर्तिनी, ततः परस्मिन् गृहे शून्यम् , ततः परस्मिन् गृहके चक्री ब्रह्मदत्तः, ततः परयोगृहकयोः क्रमेण द्वे शून्ये, इति द्वितीयपक्तिस्थापना ॥४०८॥ इदानी तृतीयपङ्क्तिस्थापना-दशसु गृहकेषु क्रमेण दश शून्यानि, ततः पञ्चसु गृहकेषु क्रमेण पञ्च केशवा-वासुदेवाः त्रिपृष्ठ-द्विपृष्ठ-स्वयम्भू-पुरुषोत्तम-पुरुषसिंहाभिधानाः, ततो गहकेषु पञ्चसु क्रमेण पञ्च शून्यानि, सूत्रे तु 'पणसुन्न'मिति पञ्चानां शून्यानां समाहारः पञ्चशून्यमिति समाहारविवक्षया एकवचनम्, ततः परस्मिन् गहे केशवो-वासुदेवः पुरुषपुण्डरीकाभिधानः, ततः परस्मिन् गृहे शून्यम् , ततः परस्मिन् गृहे केशी-दत्ताभिधाना, नतः परस्मिन् गृहकद्वये क्रमेण शून्यद्वयम्, ततः परस्मिन् गृहे केशवो नारायणनामा, ततः परस्मिन् गृहकद्धये क्रमेण शून्यद्वयम् , ततः परस्मिन् गृहे केशवः-कृष्णाभिधानः, ततः परस्मिन् गृहकाये क्रमेण शून्यत्रयमिति तृतीयपङ्क्तिस्थापना ।।४०९॥ १ 'जयदत्त' इति विषमपट्टीकायाम् (पृ. ३७ A) || ४२९ प्र.आ. १०१ २७७॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy