________________
प्रवचन
सारोद्धारे
सटीके
॥२८०॥
इत्यादि क्रमशः परिपाटयां द्विसप्ततिः, षष्टिस्त्रिशत्, दशैव शतसहस्राणि वर्षलक्षाणि, अयमर्थ:- द्वादशे गृहे वासुपूज्य-द्विपृष्ठवासुदेवयोर्द्विसप्ततिर्वशः, त्रयोदशे गृहे वासुदेवयोः षष्टिवर्षलक्षाः, चतुर्दशे गृहे अनन्तजिन पुरुषोत्तमवासुदेवयोस्त्रिंशद्वर्ष लक्षाः, पञ्चदशे गृहे धर्मजिन- पुरुषसिंहवासु देवयोर्दश वर्षलक्षा इति, तथा पोडशे गृहके मघवतश्चक्रिणः पञ्च वर्षलक्षाः सप्तदशे गृहके सनत्कुमारचक्रवर्तिनस्त्रीणि वर्णलक्षाणि, अष्टादशे गहे शान्तिजिनचक्रवर्तिनो वर्षलक्षमेकम् एकोनविंशतितमगृहे कुन्थोर्जिनचक्रिणः पञ्चनवतिर्वर्षसहस्राः सर्वायुर्भणितम्, विंशतितमगृहे अरजिनस्य चक्रिणचतुरशीतिवर्षसहस्राण्यायुर्भवति, एकविंशतितमे गृहे पञ्चषष्टिवर्षसहस्राण्यायुः पुरुषपुण्डरीकवासुदेवस्य द्वात्रिंशतितमगृहे पष्टिर्वर्षसहस्राः, सुभूमचक्रिणः, त्रयोविंशे गृहे षट्पञ्चाशद्वर्षसहस्रा भवन्ति दत्तस्य वासुदेवस्य चतुर्विंशतितमे गृहे पञ्चपञ्चाशद्वर्षसहस्राणि मल्लिजिनस्याप्यायुर्भणितम्, पञ्चविंशतितमगृहे मुनिसुव्रतजिन-महापद्मचक्रिणां त्रिशद्वर्षसहस्राण्यायुर्भणितम्, षड्विंशतितमगृहे द्वादश वर्षसहस्राण्यायुर्नारायण वासुदेवस्य भवेत्, सप्तविंशतितमगृहे दश वर्षसहस्राणि नमिजिन हरिषेण चक्रिणोर्द्वयोरपि भवन्तीति, अष्टाविंशतितमगृहे श्रीणि वर्षसहस्राण्यार्जनाम्नश्रक्रिणः, एकोनत्रिंशत्तमगृहे एकं वर्षसहस्रमायुर्ने मिजिन-कृष्णवासुदेवयोद्वयोरपि भवति, त्रिंशचमगृहे सप्त वर्षशतानि चक्रेश्वरह्मदत्तस्य एकत्रिंशत्तमगृहे वर्षशतं पार्श्वजिनस्य द्वात्रिंशत्तमगृहे च वर्षाणि द्विसप्ततिवीरजिनस्य सर्वाधुरिति द्वात्रिंशद् गृहकाणि समयविधानेन भणितानि । ॥४१०-४२६ ॥ ३५॥
१ वर्षलक्षाणामेकं सं. ॥
,
३५ द्वारे त्रिषष्टि
शलाका
न्तरादि
गाथा
४०६
४२६
प्र. आ.
१०२
[॥ २८०॥