________________
प्रवचनसारोद्वारे सटीके
२८ द्वारेजिनतनुमान गाथा ३७७३७८ प्र.आ.१५
चेति २४ । अत्र च सूत्रकारेण यक्षाणां देवीनां च केवलानि नामान्येवाभिहितानि
न-वर्णादिस्वरूपं निरूपितम् , अस्माभिस्तु शिष्यहिताय निर्वाणाकलिकादिशास्त्रानुसारेण किंचित्तदीयमुख-वर्णप्रहरणादिम्वरूपं निरूपितमिति ॥३७५-३७६।। ॥२७॥ इदानीं 'तणुमाण' ति अष्टाविंशतितमं द्वारमाह-----
पंचधणसय पढ़मो कमेण पण्णासहीण जा सुविही १००। दसहीण जा अणंतो ५० पंचूणा जाव जिणनेमी १० ॥३७७।। नव हत्थपमाणो पाससामिओ सत्त हस्थ जिणवीरो । उस्सेहअंगुलेणं सरीरमाणं जिणवराणं ॥३७॥
पंचे' त्यादि, गाथाद्वयम् , तत्र प्रथमो जिनः-ऋषभस्वामी पञ्चधनुःशतः-पश्च धनुषा शतानि अर्थादेहप्रमाणं यस्य स तथा पञ्चधनुः शतप्रमाणशरीर इत्यर्थः । ततोऽजितादयः 'क्रमेण' परिपाट्या पश्चाशता धनुषा हीना यावत्सुविधिजिनः, कोऽर्थः ?-पञ्चभ्यो धनुःशतेभ्यः पश्चाशत्पश्चाशत्पात्यन्ते, ततोऽजितजिनस्य चत्वारि धनुःशतानि पश्चाशद्धनुरधिकानि देहमानम, एवं सम्भवस्वामिनश्चत्वारि धनु:शतानि, अभिनन्दनस्य पञ्चाशदधिकानि त्रीणि धनुःशतानि, सुमतिनाथस्य त्रीणि धनुःशतानि, पद्मप्रभस्य पञ्चाशदधिके द्वे धनुःशते, सुपार्श्वस्य द्वे धनुःशते, चन्द्रप्रभस्य साधं धनुःशतम् , सुविधि
१ तनुमाण-मुः। २ पंचघणुस्सय इत्यादि-सं० ॥ ३ शतप्रमाण इत्यर्थः-मुः ।।