________________
१३-१४ द्वारयोः उत्कृष्टेतरजिनाः गाथा ३२७ प्र.आ.८६
कलितेषु तीर्थकता पष्टयधिकशतस्य सद्भायादेतत्सङ्ख्थायाः सम्भव इति । तथा जघन्यतो विंशतिस्तीर्थक्रत
एककालं विहरमाणाः प्राप्यन्ते । तथा-िजम्बूद्वीपस्य पूर्वविदेह शांतामहामना द्विभागीकृते दक्षिणोत्तरसारोद्धारे
| दिग्विभागेनकै कस्य सद्भावान द्वौ, अपरविदेहेऽपि शीतोदया महानद्या द्विभागीकृते तथैव द्वौ जिनेन्द्रौ,
मिलिनाश्चत्वारः, एवमपरद्वीपद्वयसम्बन्धिमहाविदेह चतुष्टयेऽपि चत्वारश्चत्वार इति पञ्च चतुष्का विंशतिः, सटीके
भरतैरावतयोस्तु एकान्तसुषमादावभाव एच ! अन्ये तु सूग्यो दशैव ज बन्यतो विहरन्तीति मन्यन्ते । पञ्चानां ॥२३१॥ महाविदेहाना पूर्वा-ऽपरविदेहयोः प्रत्येकमेकै कम्य विहरतः सद्भावेन दशानामेव तीर्थकृतां प्राप्यमाणत्वात ,
तथा जन्म प्रति-जन्माश्रित्योत्कृष्टन एककालं विहरमाण जिनविंशनिवत् विंशतिस्तीर्थकृतो भवन्ति, यता सर्वेषामपि तीर्थकृतामधगत्रसमय एव जन्म, ततो महाविदेहेषु तीर्थकृज्जन्मयमये भरतरावतक्षेत्रेषु दिवससद्भावेन तीर्थदुत्पत्यभावादेतावन्त एवं प्राप्यन्ते ।।
ननु महाविदेहक्षेत्रवर्तिषु विजयेषु चतुभ्योऽधिकानामपि तीर्थकृतामुत्पत्तेः सम्भवात् कथमुत्कृष्टपदे विंशतिरेवेति ?, उच्यते, इह हि मेरौ पण्डकवने चूलिकायाश्चतसृषु पूर्वादिषु दिक्ष प्रत्येक चतुयोजनप्रमाणवाहल्याः पञ्चयोजनशतप्रमाणायामा मध्यभागेऽर्धतृतीययोजनशतप्रमाणविष्कम्मा अर्धचन्द्रसंस्थान संस्थिताः सर्वश्वेतसुवर्णमय्यश्चतस्रोऽभिषेकशिलाः, तत्र चूलिकायाः पूर्व दिग्भाविन्या पाण्डकबलशिलायां द्वे तीर्थकराभिषेकसिंहासने, तद्यथा-एकमुत्तरत एक दक्षिणतः, तत्र ये शीताया महानधा उत्तरतः कच्छादिषु विजयेषु तीर्थकरा उपजायन्ते ते उत्तराहे सिंहासने सुरेन्द्ररभिषिच्यन्ते ।
१ णजिन(ना) विंशतिस्तीर्थकृतो-मु.।।
॥२३॥