________________
1.bahansan.
सारोद्वारे
६ द्वारे गुणवतातिचाराः गाथा
२८१
प्र.आ.७६
चित्तेन-चेतनया वर्तते यत्तत्सचित्तम्-आहारवस्तु कन्द-मूल-फलादि पृथ्वीकायादि वा, इह च निवृत्तिविषप्रवचन
यीकृतप्रवृत्तौ भासद्भावेऽप्यतीचारभणनं व्रतसापेक्षस्या-ऽनाभोगा-ऽतिक्रमादिना प्रवृत्ती सत्यां द्रष्टव्यम् ,
| यद्वाऽर्धकुट्टितचिचिणीपत्रादि अपरिणतोष्णोदकं वा उपभुझानस्यायमतीचारो द्रष्टव्य इति तृतीयः ३, तथा सटीके
सचित्तेन प्रतिबद्धं-सम्बद्ध सचेतनवृक्षादिसम्बद्धं गुन्दादि फलादि वा, सचित्तान्त/जं खजरा-ऽऽम्रादि, ॥२०५॥ तदाहारोहि सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतीचारश्चतुर्थः, अथवा बीजं त्यक्ष्यामि
तस्यैव सचेतनत्वात् , कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति बुद्धया पक्क खजूरादिफलं मुखे प्रक्षिपतः सचित्तवर्जकस्य सचित्तप्रतिबद्धं भक्षयतोऽतीचारः ४, तथा तुच्छा:-असारा औषधयः-अनिष्पन्नकोमलमुद्गादिफलीरूपा तासां भक्षणं पञ्चमोऽतीचारः ५, ननु तुच्छौषधयोऽपक्का दुष्पक्वा सम्यक्पक्का वा स्युः१, यद्याद्यो पक्षौ तदा प्रथम-द्वितीयातीचाराभ्यामेवास्योक्तत्वात्पौनरुक्त्यप्रसङ्गः, अथ सम्यक्पवास्तदा निरवद्यत्वादेव तद्भक्षणस्य काऽतीचारतेति ?, सत्यम् , किन्तु यथाऽपक्क-दुष्पक्कयोः सचित्त-सचित्तप्रतिबद्धयोश्च सचित्तत्वे समानेऽप्योषध्यनौषधिकृतो विशेषः, तथाऽत्रापि सचेतनत्वौषधित्वाभ्यां समानत्वेऽप्यतुच्छत्वतुच्छत्वकृतो विशेषोऽवगन्तव्यः, तत्र च कोमलमुद्गादिफलीविशिष्टतृप्त्यकारकत्वेन तुच्छाः सचेतना एव (वा) अनाभोगातिक्रमादिना भुञ्जानस्य तुच्छौषधिभक्षणमतीचारः, अथवाऽत्यन्ताक्द्यभीरुतयाऽचित्ताहारताऽभ्युपगता, तत्र च यत्तृप्तिकारकं तदचेतनीकृत्यापि भक्षयतु सचित्तस्यैव वर्जनीयत्वाभ्युपगमात्, यत्पुनस्तृप्तिसम्पादनाऽसमर्था अप्यौषधीलौंल्येनाऽचेतनीकृत्य भुङ्क्ते तत्तुच्छौषधिमक्षणमतीचारः, तत्र भावतो विरते.
॥२०५॥