SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ प्रचचन सारोद्धारे सटीके ॥२०४॥ नीयः गावानागतो भवेत्तदा यत्तेन लब्धं स्वयं वा विस्मृतितो गतेन लब्धं तत्परिहर्तव्यं ५ ॥ २८० ॥ अथ द्वितीयगुणव्रतातीचारानाह - अपक्कं दुप्पक्कं सचितं तह सचित्तपरिबद्धं । तुच्छो सहिभक्खणयं दोसा उवभोगपरिभोगे ||२८१|| १ 'अपक्क' दुषक' मित्यादि, इह हि श्रावण भोजनतः किल प्रायो निरवद्याहारेणैव भाव्यम्; अतस्तदपेक्षया यथासम्भवममी अतीचारा दृश्याः, तत्र अपक्यं - अग्न्यादिना यदसंस्कृतं शालि-गोधूमौषध्यादि तदनाभोगातिक्रमादिना भुञ्जानस्य प्रथमोऽतीचारः १, नन्वपक्कोषधयो यदि सचेतनास्तदा सचित्तमितितृतीयपदेनैवोक्तार्थत्वादस्योपादानमसङ्गतम्, अथाऽचेतनास्तदा कोऽतीचारो ? निरवद्यत्वातक्षणस्येति, सत्यम्, किन्तु तृतीय- चतुर्थावतीचारी सचित्तकन्द- फलादिविषय प्रथमद्वितीयौ तु शान्याद्यौषधिविषयाविति विषयकृतो भेदः, अत एवावश्यकसूत्रे 'अपउलिओसहिभक्खणया' [आव. प्रत्या. ] इत्याद्युक्तम् अथवा कणिकादेरपक्वता सम्भवत्स चित्तावयवस्य पिष्टत्वादिनाऽचेतनमिदमिति बुद्धया भक्षणं व्रतसापेक्षत्वादतीचारः, तथा दुष्पक्वं मन्दपक्वं तच्चार्धस्विन पृथुकतण्डुल-यव- गोधूम -स्थूलमण्डककङ्कटुकफलादि ऐहिकप्रत्यवायकारि यावता चशिन सचेतनं तावता परलोकमप्युपहन्ति पृथुकादेदु कता सम्भवत्सचेतनावयवत्वात् पक्कत्वेन चाचेतनमिति बुद्धया भुञ्जानस्यातीचार इति द्वितीयः २ तथा सह १ तुलना - योगशास्त्रटीका (३६८) । २ तुलना पचाशक टीका (१२२) धर्मसङ्ग्रहटीका ( मा. १. १०६B) | ६ द्वारे गुणत्रतातिचाराः गाथा २८१ प्र.आ. ७६ ॥२०४॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy