SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥२०३॥ *" आहाक्रम्मनियंतण पडिसुणमाणे अइकमो होड़ । पयमेयाह 'कम गहिए "तहओयरो मिलिए || १ ||" [पिण्ड नि. १८२ ] ' इति गाथानुसारेण सर्वत्र ज्ञेयम् अत्र 'तडओ' ति अतिचारः 'इयरो' ति अनाचारः, अत्र च चैत्यसाधुवन्दनाद्यर्थं नियमितोध्वदिदिक्प्रमाणमतिक्रम्य सूक्ष्मेकिया साधोरित्र उपयुक्तस्य परतोऽपि गच्छतो न भङ्गः तथा स्मृतेर्योजनशतादिरूपदिपरिमाणविषयाया अतिव्याकुलत्व प्रमादित्व-बुद्धयपाटवादिना विस्मरणम्, तथाहि - केनचित्पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत् गमनकाले च स्पष्टरूपतया न स्मरति किं शतं परिमाणं कृतमुत पञ्चाशत् १ तस्यैवं पञ्चाशतमतिक्रमतोऽतीचारः सापेक्षत्वात् शतमतिक्रामतश्व भङ्गो निरपेक्षत्वात् ततः स्मरणीयमेव गृहीतं व्रतम्, स्मृतिमूलं हि सर्वमनुटानमिति चतुर्थोऽतीचारः ४, अयं तु सर्वत्रतेषु द्रष्टव्यः तथा क्षेत्रस्य - पूर्वादिदेशस्य दिव्रतविषयस्य तो वृद्धिः-वर्धनं पश्चिमादिक्षेत्रान्तरपरिमाण प्रक्षेपेण दीर्घीकरणं क्षेत्रवृद्धिरिति पञ्चमोतीचारः, तथाहि - केनापि पूर्वा ऽयरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं विदधे स चोत्पन्नतथाविधप्रयोजन एकस्यां दिशि नवति योजनानि व्यवस्थाप्याऽन्यस्यां दशोत्तरं योजनशतं करोति, द्वाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याऽव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतीचार इति यदि चानाभोगात् क्षेत्रपरिमाणमतिक्रान्तो भवति तदा निवर्तितव्यम्, ज्ञाते वा न गन्तव्यम्, अन्यो वा न विसर्जआधाकर्मणो निमन्त्रणे प्रतियमाणेऽतिक्रमो भवति पदभेदादौ व्यतिक्रमो गृहीते तृतीय इतरो गिलिते ||१२|| १ वतिक्रम-जे ॥ २ तयरो-सं. पयरो-मु || ३ संतो- जे. ॥ ह्रस्वस्य 1 Hi ६ द्वारे गुणत्रतातिचाराः गाथा २८० प्र.आ. ७६ ॥२०३॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy