________________
प्रवचन
सारोद्धारे
सटीके
॥१९२॥
'व्रतेयत्ता विशीर्यते' इति, तदयुक्तम्, विशुद्ध हिंसासद्भावे हि बन्धादीनामभाव एव ततः स्थितमेतद्-वन्यादयोऽधिवास एवं स्वादिग्रहणस्योपलक्षणत्वान्मन्त्र-तन्त्र प्रयोगादयोऽन्येऽप्यतिचारतया विज्ञेया इति ॥ २७४ ॥
द्वितीयव्रता तिचारानाह
सहसा कलंकणं १ रहसदूसणं २ दारमंनभेयं च ३ ।
तह कूडलेहकरणं ४ मुसोवएसो ५ 'मुसादोसा ||२७५॥
'सहसे' त्यादि, सहसा - अनालोच्य कलङ्कन- कलङ्कस्य करणमभ्याख्यानममद्दोषस्यारोपणमितियावत् atreei पारदारिकस्त्वमित्यादि प्रथमोऽतिचारः, ननु सहसा कलङ्गनममदोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद्भङ्ग एव न त्वतिचार इति, सत्यम्, किन्तु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा सङ्क्लेशाHida साक्षेपान भङ्गः परोपघातहेतुत्वाच्च भङ्ग इति भङ्गामङ्गरूपोऽतिचारः, यदा तु तीव्रसङ्क्लेशादभ्याख्याति तदा भङ्ग एवं व्रतनिरपेक्षत्वादिति तथा रह: -- एकान्तस्तत्र भवं रहस्यं - राजादिकार्यसम्बद्धं यदन्यस्मै न कथ्यते तस्य दूषणम् -- अनधिकृतेनैवाकारेङ्गितादिभिर्ज्ञात्वा अन्यस्मै प्रकाशनं रहस्यदुषणम्, यथा रहसि मन्त्रयमाणान् कश्विदवलोक्य गृहीतमृपात्रतः कश्चिद्वदति - एते हि राजापकारादिकारकमिदमिदं च मन्त्रयन्ते यद्वा रहस्यदूषणं- पैशुन्यम्, यथा द्वयोः प्रीतो सत्यामेकस्याकारादिनोपलभ्याभिप्राथमितरस्य तथा कथयति यथा प्रीतिस्तयोः प्रणश्यति इति द्वितीयोऽतिचारः, तथा दाराणां कलत्राणा१ मुझे दोसा-मु० ॥ २ तुलना - योगशास्त्रटीका (३०६१) धर्म (मा० ११० १०२ ) ।।
६ गृहपतिचारद्वारे
अणुत्रतातिचाराः
५-५
गाथा
२७५
प्र.आ. ७२
।।१९२।।